SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्र.२० * गुरुत्वहेत्वप्रार्थनावैषयिकी विक्रमादित्यनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो विंशतिसंख्यं प्रश्नमाह- * प्र. २० - किं गहनम् ? व्याख्या हे भगवन् ! किं गहनं दुर्जेयम् ? इति प्रश्ने शिष्येण कृते गुरुरपि के गहनं तदनयायि विंशतिमितमत्तरमाह-स्त्रीचरितम. व्याख्या हे वत्स ! स्त्रियो नार्यस्तासां यच्चरितं असदाचारस्तदेव - स्त्रीचरित्रं दुःपरिच्छेद्यमलं तावन्नरैः किंतु सुरैरपि । यदुक्तं-अश्वप्लुतं माधवगर्जितं च । स्त्रीणां चरित्रं भवितव्यता च ॥ * अवर्षणं चाप्यथ वर्षणं च । देवा न जानन्ति कुतो मनुष्याः ?।।१।। अत्रार्थे चंडाप्रचंडाविद्युल्लताकथा, तथाहि-* * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुशस्थलं नाम नगरं, यदर्हतां मंदिरमालिकोपरि । स्फुरत्तरस्फारपटां-* * चलैश्चलैः ॥ निवासिनः प्राणिगणस्य संसृते-रसारतां दर्शयतीव सर्वदा ॥१॥ तत्र धनदो नाम नैगमः, श्रियो र यदीयाः सकलार्थसार्थ-साधारिणीर्यक्षवरो निरीक्ष्य ॥ अमंदमंदाक्षविलक्षवक्त्रो । नाद्यापि हि स्वं प्रकटी* करोति ॥१॥ तस्य चंडाप्रचंडानाम्न्यौ प्रिये, ययोर्महाभीप्रदविस्मयैक-विधायिमंत्रावलिशालिनीनाम् ।। सीमंतिनी-* * नाम् निवहस्य मध्ये । शोश्रूयतेऽपूर्वतरैव रेखा ॥१॥ ताभ्यां समं भोगाननुभवतस्तस्याऽगलत्कियत्कालः । * * अन्यदा मिथः कलहायमाने पल्यौ पश्यन् स इत्यचिंतयत्-वरं कारागृहे क्षिप्तो । वरं देशांतरभ्रमी ।। वरं नरक* संचारी । न द्विभार्यः पुमान् पुनः ।।१।। अभूषितो गृहाद्याति । नाप्नोत्यंबुच्छटामपि ।। अक्षालितपदः शेते । भार्या प्रश्नो. * द्वयधरो नरः ।।२।। तदेवं सर्वदैवैते । विवादैकप्रिये प्रिये ।। भविष्यतो मत्प्रतिष्ठा-रंगभंगस्य हेतवे ।।३।। अतः * सटीका * पृथक्पृथग्वेश्म-स्थिते एते सुखाय मे ।। स बुधो यो विधत्ते हि । शुभमायतिचिंतनम् ।।४।। ततस्तेन पुरपरिसरे * ॥१४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy