________________
米米米米米米米
米米米米米米米米米米
हंत । जातज्वर इवाभवम् ||३|| दध्यौ च नरकीटे कः । संकटावटवर्तिनि । अप्रार्थित्वगुणो भूयात् । किंत्वीशाः स्वैरभाषिणः ।।४।। उक्तं च सच्छंदं जं पिच्छइ । कीरइ जं नियमणस्स पडिहाई || अजसस्स न बीहिज्जइ । पहुत्तणं तेण रमणीयं ||१|| तद्गत्वा सत्वरं तस्य । गुरोरिव परीक्षणम् || विपदह्नौ विधायाहं । कुर्वेऽनृतगिरं हरिम् ॥२॥ विमृश्येति ततः स्वर्गा - दवतीर्य विधाय च ॥ अयोदारिपुत्रं ते ऽस्यां नगर्यां समागमम् ||३|| यत्र यत्रापणे निन्ये । स मया व्ययहेतवे ॥ ततो लोकाः पलायन्ते । सिंहालोकादिभा इव ॥ ४॥ ततो मया स ते पार्श्वे । समानीतस्त्वया पुनः || राज्यसर्वस्वदानेन । जगृहे कीर्तिकाम्यया ॥ ५॥ तद्भिया निखिला राज्य-श्रियो यांत्योऽप्युपेक्षिताः ।। परं स पुत्रको नौज्झि । ह्येषा सत्त्ववतां स्थितिः ||६|| विकुर्यैतन्मया सर्वं (तदेतदाश्चर्यकरं पाठा.) । भवतोऽप्रार्थनाव्रतम् ।। प्रपश्यता तथाज्ञायि (मयाज्ञायि पाठा.) । सत्यं शक्रप्रशंसनम् ॥७॥ तच्छद्मनामुनाकारि । त्वत्परीक्षा ह्यतो न मे ।। दोषश्चित्यो यतः सर्वं सहाः सर्वंसहाभुजः ||८|| तस्मादवश्यं याचस्व । मनोऽभिमतमात्मनः । न हि स्वर्वासिनां जातु । दर्शनं विफलीभवेत् ||९|| नृपोऽप्येतत् श्रुत्वा प्रोवाच-सुर ! सुरोऽपि पूर्वाशां । त्यक्त्वा प्रत्यग्दिशं श्रयेत् ।। तथापि प्रार्थनायां मे । लोला लोलायते न हि ।।१।। देवोऽपि तन्निश्चयं ज्ञात्वा प्रीतः सहिरण्यरत्नां पुष्पवृष्टिं कृत्वा विक्रमार्कं राज्ये न्यस्य यथागतमगात्, जनोऽपि तत्स्वरूपं ज्ञात्वाधिकतरं प्रमोदभरं बभार । इत्थं जना विक्रमभूमिभर्तु रप्रार्थनं नाम गुणं निशम्य । अत्रैव यत्नं कुरुताSS-दरेण । यथा त्रिलोक्यां गुरुता भवेद्वः ||१||
।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुत्वहेत्वप्रार्थने विक्रमादित्यनृपकथा ||
Education International
प्र. १९
देवेन कृता
विक्रमस्य
प्रशस्तिः
प्रश्नो.
सटीका
॥१४५॥
www.jainelibrary.org