________________
*****************************
विक्रयम् ॥२॥ अतोऽहं लोहदारि - पुत्रकं विश्वशत्रुकम् || सहाऽऽदाय भवद्ग- मागां विक्रयहेतवे ॥३॥ एकोनविंशतिकर-प्रमे वंशे निवेश्य तम् ।। गृहसर्वस्वदानेन । गृह्णात्वेनमिति ब्रुवन् ||४|| प्रत्यापणमहं भ्रांतो । हस्यमानः पुरीजनैः ।। तवैष शाश्वतो भूया - दिति जल्पाकुलाननैः || ५ || युग्मम् || विलोक्याऽहं पुरीलोकांस्तदादानपराङ्मुखान् ।। भवतां संनिधावागां । विद्यार्थी सद्गुरोरिव || ६ || तत्त्वं सर्वस्वदानेनाऽऽ - दायानाऽऽदाय वाऽधुना ॥ निजपुर्या यशोवादं । त्वं पुषाण कुषाण वा ॥७॥ इति दुःश्रवं तद्वचः श्रुत्वा नृपो दध्यौअमुष्याऽऽदानतो राज्य - लक्ष्मीभ्रंशो भृशं भवेत् ॥ अन्यथाऽपयशोढक्का - रवः सर्वत्र विस्तरेत् ||१|| तदेतयोर्द्वयोर्मध्ये । राज्यभ्रंशो वरं न तु ॥ चिरकालप्ररूढाया । लवनं कीर्त्तिवीरुधः ॥ २॥ इति विचार्य नृपवर्यः सचिवाद्यैर्वार्यमाणोऽपि राज्यदानेन दारिद्यपुत्रकमग्रहीत्, नान्यथा सतां वचः, यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजन्ति सत्पुरुषाः ॥ नंदुस्त्यजति कलङ्कं । नोज्झति वडवानलं सिंधुः ||१|| ततः सांतःपुरं राज्यं तस्मै दत्वा सत्त्वाऽऽविष्टो भूपः कृपाणपाणिर्हाहारवमुखरमुखान् साश्रुदृशो नागरान् विसृज्य पूर्या निर्याय बहिर्देवकुलं प्राप । तत्र सांध्यविधिं विधाय प्रातः पुरो यास्यामीति विक्रमो निशामावसत् ।
ततो निशीथे सुप्तो नृपतिरेकां राकामृगांकवक्त्रां स्मेरांभोरुहदृशं पीनस्तनीं कंठलुठन्मुक्ताहारां रणज्झणायमाननूपुरां बालामालेक्य साक्षेपमाख्यत्-आः पापे क्व समेतासि । यामिनीयामयामले । किं मां परस्त्रीगांगेयं । विक्रमार्कं न बुध्यसे ? ||9|| साप्यूचे - नाथ ! रक्तां च भक्तां च । चिरभुक्तां च मां प्रियाम् ॥ गजसाधन
For Personal & Private Use
प्र. १९
राज्ञः नगरत्यागः
प्रश्नो.
सटीका
1198311 www.jainelibrary.org