SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ * पन्था मंथा सुखश्रियाम् ।।५।। उक्तं च-जे के वि पुव्वपुरिसा । अंधलया अंधकूवए पडिया । ता किं सच्च-* प्र.१८ * खेणं । पुणोवि तत्थेव पडियव्वं ।।१।। तत्ताताऽऽदेशगरलं । निरस्य चरमार्हतः ।। उपदेशामृतं कर्ण-पुटैर्गत्वा * रौहिणेयस्य * पिबाम्यहम् ।।६।। इति ध्यात्वा गतो रौहिणेयोऽपश्चिमजिनाभ्यर्णं नत्वा च विभुमिति व्यजिज्ञपत् वीरं प्रति र स्वामिन् मोहोरगग्रस्त-नृणां त्वद्वचनामृतम् ।। विपद्गरलविध्वंसे । याति गारुडमंत्रताम् ॥१।। त एव : * प्राणिनो धन्या । मन्ये ये परमेश्वर ॥ तवोपदेशपीयूष-यूषपानैकलंपटाः ॥२॥ अहं त्वधन्यो यत्ते के * वा-सुधापानभयादहम् । कर्णौ पिधाय पाणिभ्या-मिदं स्थानमलंघयम् ॥३॥ एकदा पदसंलग्न-कटुकंटक-* * कर्षणात् ।। उपदेशामृतं पातु-मनिच्छुरपि तेऽपिबम् ।।४।। तत्प्रभो तत्प्रभावेन । तादृशाद्राजनिग्रहात् ।। निस्तीर्णमपि । * मां भूयो । रक्ष रक्ष भवार्णवात् ।।५।। भगवानप्युवाच हे वत्स ! सर्वविरति-ग्रहणेन भवाम्बुधेः ।। निस्तारः * * द्राग्भवत्येव । नान्यथेति विनिश्चयः ।।१।। रौहिणेयोऽप्यभणत्-भगवन् ! यदि योग्योऽस्मि । तदा मे दीयतां के व्रतम् ॥ प्रभुरप्यूचे-कल्याणिन् ! योग्य एवाऽसि । यद्युक्तं तद्विधीयताम् ।।१।। इति जिनोपदेशामृतं * * श्रोत्रांजलिपुटेनाऽऽपीय रौहिणेयो भूयो व्यजिज्ञपत्-त्रिजगन्नाथ ! यद्येवं । तदादास्ये व्रतं परम् ।। श्रेणिकक्ष्माभुजा । * साकं । किंचिद्वाच्यं हि विद्यते ।।१।। इत्युक्त्वा गतो भूपाभ्यासं लोहखुराङ्गभूरभाषत-देव ! किंचन वक्तव्यं । * * वर्तते भवतां पुरः ।। नृपोऽप्यूचे-महाभाग ! गताशंको । निवेदय मदग्रतः ।।१।। रोहिणीसुतोऽप्याहस्म-राजन् सटीका त यस्तस्करोऽश्रावि । भवद्भिर्जनवार्तया ।। सोऽहं हि रौहिणेयाऽऽह्वो । युष्मन्नगरमोषकः ।।१।। किंत्वेकया ॥१४०॥ JET Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy