________________
******>
नाणे य विन्ना । पच्चक्खाणे य संजमे ॥ अणण्हए तवे चेव । वोदाणकिरिया सिद्धी || १ || अत्राऽर्थे रौहिणेयकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारत वर्षे मगधदेशे राजगृहपुरपरिसरे वैभारगिरिर्नाम भूधरः, गुणशैलकचैत्यशृंगकोपरि खेलद्विमलध्वजाञ्चलैः । परितर्जयतीव योऽनिशं । त्रिदशाधीशगिरेरपि श्रियम् ||१|| तद्गुहावासी लोहखुरो नाम चौरः, चौर्यवृत्तिकलया कुशलेषु । स्तेनमंडलकुलेष्वखिलेषु । चौरराज इति यस्य निनादोऽ-द्यापि हि प्रकटभावमियर्ति ।।१।। स तु राजगृहवासिश्रीमद्धामसु पर्वादिषु पिशाचवदवसरमाप्य द्रव्याद्याहरणनाममुपद्रवं कुर्वन् स्वकुटुंबमपूपुषत् । एकदा तेन रूपेण चेष्टया चानुरूपो रोहिणीकुक्षिरत्नं रौहिणेयाऽभिधः सुतो मृत्युक्षणेऽभाष्यत - वत्स विधत्से यदि मे । वचस्तदा त्वत्पुरो ब्रवीमितराम् ॥ सोऽप्यूचे - ताताऽऽदिश तत्कुर्वे । कोऽज्ञः खंडयति पितुराज्ञाम् ||१|| लोहखुरोऽप्याख्यत् - वत्स यः कुरुते प्रायो । जिनो व्याख्यां सदः स्थितः ॥ नाऽऽकर्णनीयं तद्वाक्य-मन्यत्कार्यं निजेच्छया ||१|| इति वदन्नेव विपन्नो लेहखुरः, रौहिणेयोऽपि पितुरन्त्यकृत्यं कृत्वा परमब्रह्मेव पितुर्गिरं स्मरन् संतोषविमुखोऽनिशमेव राजगृहममुष्णात् ।
अत्रान्तरे गौतमादिपरिवारो वीरजिनो वैभारगिरौ समवासरत् । तदानीमेवाऽमरविनिर्मितसमवसरणान्तः सिंहासनस्थः वीरः सर्वभाषानुयायिन्या योजनसर्पिण्या वाण्या यावद् व्याख्यानमाततान, तावद्रौहिणेयः समवसरणपरिसराऽभ्यर्णवर्तिवर्त्मना पुरं प्रति प्रयानचिन्तयत् - चेद्गम्यतेऽधुनानेन । श्रूयतेऽर्हद्वचस्तदा ।। ताताऽऽज्ञा खंड्यतेऽन्योऽध्वा । नैव तत्क्रियते किमु ? ||१|| इति चिन्तनानन्तरमेवोत्पन्नधीर्लोहखुरभूः कर्णौ पिधाय
**********
प्र. १८
मृत्युक्षणे लोहखुरस्य
वचनम्
प्रश्नो.
सटीका
॥१३५॥
www.jainelibrary.org