SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ******> नाणे य विन्ना । पच्चक्खाणे य संजमे ॥ अणण्हए तवे चेव । वोदाणकिरिया सिद्धी || १ || अत्राऽर्थे रौहिणेयकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारत वर्षे मगधदेशे राजगृहपुरपरिसरे वैभारगिरिर्नाम भूधरः, गुणशैलकचैत्यशृंगकोपरि खेलद्विमलध्वजाञ्चलैः । परितर्जयतीव योऽनिशं । त्रिदशाधीशगिरेरपि श्रियम् ||१|| तद्गुहावासी लोहखुरो नाम चौरः, चौर्यवृत्तिकलया कुशलेषु । स्तेनमंडलकुलेष्वखिलेषु । चौरराज इति यस्य निनादोऽ-द्यापि हि प्रकटभावमियर्ति ।।१।। स तु राजगृहवासिश्रीमद्धामसु पर्वादिषु पिशाचवदवसरमाप्य द्रव्याद्याहरणनाममुपद्रवं कुर्वन् स्वकुटुंबमपूपुषत् । एकदा तेन रूपेण चेष्टया चानुरूपो रोहिणीकुक्षिरत्नं रौहिणेयाऽभिधः सुतो मृत्युक्षणेऽभाष्यत - वत्स विधत्से यदि मे । वचस्तदा त्वत्पुरो ब्रवीमितराम् ॥ सोऽप्यूचे - ताताऽऽदिश तत्कुर्वे । कोऽज्ञः खंडयति पितुराज्ञाम् ||१|| लोहखुरोऽप्याख्यत् - वत्स यः कुरुते प्रायो । जिनो व्याख्यां सदः स्थितः ॥ नाऽऽकर्णनीयं तद्वाक्य-मन्यत्कार्यं निजेच्छया ||१|| इति वदन्नेव विपन्नो लेहखुरः, रौहिणेयोऽपि पितुरन्त्यकृत्यं कृत्वा परमब्रह्मेव पितुर्गिरं स्मरन् संतोषविमुखोऽनिशमेव राजगृहममुष्णात् । अत्रान्तरे गौतमादिपरिवारो वीरजिनो वैभारगिरौ समवासरत् । तदानीमेवाऽमरविनिर्मितसमवसरणान्तः सिंहासनस्थः वीरः सर्वभाषानुयायिन्या योजनसर्पिण्या वाण्या यावद् व्याख्यानमाततान, तावद्रौहिणेयः समवसरणपरिसराऽभ्यर्णवर्तिवर्त्मना पुरं प्रति प्रयानचिन्तयत् - चेद्गम्यतेऽधुनानेन । श्रूयतेऽर्हद्वचस्तदा ।। ताताऽऽज्ञा खंड्यतेऽन्योऽध्वा । नैव तत्क्रियते किमु ? ||१|| इति चिन्तनानन्तरमेवोत्पन्नधीर्लोहखुरभूः कर्णौ पिधाय ********** प्र. १८ मृत्युक्षणे लोहखुरस्य वचनम् प्रश्नो. सटीका ॥१३५॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy