SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ **** पौरगिरः श्रुतिगोचरचारितां नयन्तः सर्वत्र पुरि भ्रामं भ्रामं ऋषभदास श्रेष्ठिमंदिरद्वारमानयामासुः । तत्र तथास्वरूपं निजपतिं वीक्ष्य महासती मनोरमेत्यचिन्तयत्-अयं सदा सदाचारो । मत्पतिर्नृपतिस्तथा ।। न्यायनिष्ठः परं दुष्टो । हतस्रष्टाऽयमेव हि ।।१।। यद्वेदं सुष्ठु नाचिंति । यदमुष्य महात्मनः । प्राग्जन्मकृतपापानां । फलमेतदुपस्थितम् ॥२॥ अमीषु क्षपितेष्वेव । प्रतीकारो न चान्यथा ॥ तथाप्यत्र यतिष्येऽहं । यथा चासौ भविष्यति ॥३॥ गृहांतः प्रविश्य देवार्चामासूत्र्य कायोत्सर्गे स्थित्वा शासनसुरीं मनसि न्यस्य पुनः व्यमृशत् - परमेश्वरि मे पत्यु-र्दोषसंभावनापि हि ।। न बभूव क्वचित् सा तु । समजायत संप्रति ||१|| अतोऽस्य जैनमुख्यस्य । चेत्साहाय्यं विधास्यसि ।। तदाहं प्रतिमामेनां । पारयिष्यामि निश्चितम् ||२|| नो चेदेवं स्थिताया मे । स्यादेवानशनं यतः ॥ न वीक्षितुं क्षमा धर्म - हीलां श्रावकबालिका ||३|| इतश्च ततःस्थानात्तैरारक्षैः श्मशानमेत्यारोपितः शूलायां सुदर्शनः, सापि देवतानुभावात्सुवर्णसिंहासनतामगात् । ततस्तद्बधाय कंधरायां व्यापारितः करालः करवालः कंठकंदले सुमदामतिस्म । ततो भीतैस्तैस्तद्वृत्तं राज्ञाऽग्रे व्यज्ञपि । नृपोऽपि राजगजमारुह्य रयादयात्सुदर्शनाभ्यासं तं च बंधुवदालिंग्य पश्चात्तापपर इत्युचे - श्रेष्ठिन् दिष्ट्याद्य दृष्टोऽसि । यत्पापेन मया भवान् || मार्यमाणोऽपि न मृत- स्तत्ते शीलविजृंभितम् ।।१।। मायाविनीनां नारीणां । वचनात्त्वां विनाशयन् ॥ अविमृश्यकृतां पुंसां । मध्येऽहं प्रथमोऽभवम् ॥२॥ किंत्वेतत्पातकमहं । भवतैव हि कारितः ।। यत्तदानीं मया वारं वारं पृष्टोऽपि नाऽब्रवीः || ३|| तत्त्वया मेऽपराधोऽयमार्य ! Use Only प्र. १७ महासती मनोरमाया उत्तमचिंता कायोत्सर्गे स्थितिः शूलायाः सुवर्ण सिंहासनम् प्रश्नो. सटीका ॥१३२॥ N.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy