________________
शूलायाः सुवर्ण
* सत्त्ववतां क्षोभः ? उक्तं च-उपद्रवत्सु क्षुद्रेषु । न क्षुभ्यन्ति महाशयाः ।। उत्कालैः शफरैः किं स्या-ल्लोलः * प्र.१७ - कल्लोलिनीपतिः ।।१।। ततः प्रातः स्वं नखैर्विदार्य सानार्याशया प्रोच्चैः पूच्चक्रे-हंहो प्राहरिका वेगा-देव धावत महासती * धावत ।। यदेष मे बलात्कार-कारी कश्चिन्नराधमः ।।१।। ततस्तेऽपि तत्रत्य प्रतिमास्थितं सुदर्शनं वीक्ष्याऽचिन्तयन्- * मनोरमाया * असौ शोश्रुयते तावत् । परनारीसहोदरः।। अतोऽस्मिन्नीदृशं कृत्यं । न संभवति जातुचित् ।।१।। ततो विज्ञप्तस्तैर्भूपः, * उत्तमचिंता * तेनापि तत्रैत्य व्यतिकरं पृष्टाभयाऽभाषिष्ट-प्रभो ! त्वामहमापृच्छ्य । तदा यावदिह स्थिता ।। तावदागत एवैष ।
कायोत्सर्गे
स्थितिः * दुष्टो ह्यत्र पिशाचवत् ।।१।। ततो रिरंसुनानेन । प्रार्थिता चटुपूर्वकम् ।। मयाप्यवादि रे मूढ ! दूरेऽपसर मद्देशोः * * ॥२॥ क्षमोऽस्यन्यस्त्रियां शील-खंडने न पुनर्मम ।। अन्यादृशाः कपित्थास्ते । पात्यन्ते वायुना हि ये ॥३॥ तत * एवं वदन्तीं मां । नखैरेष व्यदारयत् ।। मयापि पूत्कृतं यस्मा-दबलानामिदं बलम् ।।४।। किमस्मिन्नप्यदः संभवति ।
सिंहासनम् * न वा ? इति संदेहदोलामारूढेन भूपरिवृढेन किमेतत् ? इत्युक्तोऽपि सुदर्शनो राज्ञीकृपया नाहस्म, इदृगेव के - गरीयसां स्वभावः, यतः-अपकारपरेऽपि कुर्व-त्रुपकार एव हि महान्तः ।। छेदेऽपि चंदनतरुः । सुरभयति मुखं * कुठारस्य ।।१।। ततो दस्यूनां पारदारिकाणां च मौनमेव बलमिति क्षितिपतिरारक्षानादिशत्-भो भो भवद्भिरखिले । * * ह्यस्मिन्नगरे विडंबनापूर्वम् ।। दोषं प्रकाश्य शूला-न्यासः कार्योऽस्य दुष्टस्य ।।१।। तेऽपि पुरारक्षाः सुदर्शनं * - दोलुं धृत्वा, मुखं शामयित्वा, वपुषि रक्तचंदनस्तबकानि दत्वा, कंठे करवीरकुसुमयुतां निम्बपत्रमालामालंब्य । प्रश्नो. * कर्णपुच्छविहीने खरे समारोप्य, शीर्षे जीर्णसूर्पछत्रं निवेश्य, वाद्यमानविस्वरडिंडिमपूर्वं शुद्धांतदत्तानंगावस्कंदोऽयं * सटीका
सुदर्शनो वध्यभुवि नीयते, नाऽत्र न्यायवतोऽवनीपतेर्दोष इत्युद्घोषणां प्रथयन्तः सर्वथास्मिन्न दोष इति हारवगर्भाः * ॥१३१॥
Personal & Private Use Only
www.jainelibrary.org