SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ * तन्मानसं मत्वा तदनुयायि प्रथममुत्तरमाह- 'गुरुवचनम्' व्याख्या - हे वत्स ! गृणाति धर्मतत्त्वमिति गुरुः, * प्र.१ * यतः - पिता माता भ्राता प्रियसहचरी सूनुनिवहः । सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः ।। निमज्जन्तं जन्तुं * गुरुवचनमेव - नरककुहरे रक्षितुमलं । गुरोर्धर्माऽधर्मप्रकटनपरात्कोऽपि न परः ।।१।। तस्य वचनं सदुपदेशः, तच्च धन्येभ्य एव । ग्राह्य * गुरवो वितरन्ति, नेतरेभ्यः । उक्तं च-धन्नाणमेव गुरुणो । उवएसं दिति गुणमहोअहिणो ।। चंदणरसो य उन्नाण। * * निवडए नेय अंगंमि ।।१।। यस्तु गुरुभिर्भण्यमानं वचनं भावेन पीयूषवत्पिबति तस्य परमसौहित्याय स्यात् । * यदाह श्रीधर्मदासगणिः - जो गिण्हइ गुरुवयणं । भण्णंतं भावओ विसुद्धमणो ।। ओसहमिव पिज्जंतं । तं तस्स र में सुहावहं होइ ।।१।। यद्यपि जीवानां प्रमदासंपदाद्याः पदार्था ग्राह्याः सन्ति तथापि तेषां क्षणविनश्वरत्वात्किंपाक-* * फलवत्परिणामविरसत्वाच्च न ग्राह्यत्वं, अतो धर्मोपदेशस्यैव परमार्थतो ग्राह्यत्वमुपदेश्यत्वं च । यदुक्तं- नोपकारो के जगत्यत्र । तादृशः कोऽपि विद्यते ।। यादृशी दुःखविच्छेदा-प्राणिनां धर्मदेशना ।।१।। अतो गुरुवचनमेव * * हितैषिणा ग्राह्यं, अत्रार्थे रत्नसारकुमारकथा, तथाहि - ऋ इहैव जंबूद्वीपप्रज्ञप्तिश्रुतविश्रुतस्वरूपे जंबूद्वीपे निवासिजनजनितहर्षप्रकर्षे भारते वर्षे रत्नपुरं नाम नगरम्, र । यत्र चित्रतररत्ननिर्मितश्रीमदर्हदुरुमंदिरांशुभिरंधकारनिकरो निराकृतः क्वापि नैव लभते ह्यवस्थितिम् । तत्र के प्रश्नो. * रत्नांगदो नाम राजा, यत्प्रतापतपनातपतप्ताः कौशिका इव रिपुक्षितिपालाः काननाचलगुहादिषु दुःखान्नित्यमेव + सटीका * समयं गमयन्ति । तस्य रत्नप्रभा नाम राज्ञी, यदीयरूपं निजरूपतोऽपि मनोहरं प्रेक्ष्य सुपर्ववध्वोऽमंदमंदाक्षविलक्षवक्त्रा + ॥५॥ Jan Education temation For Person & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy