________________
* कः खलु नालंक्रियते । दृष्टादृष्टार्थसाधनपटीयान् ॥ कंठस्थितया विमल-प्रश्नोत्तररत्नमालिकया ।।२।। * प्रश्नोत्तर* व्याख्या-कः पुमान् दृष्टादृष्टार्थसाधनपटीयान् खलु निश्चितं कंठस्थितया प्रश्नोत्तररत्नमालिकया नालंक्रियते ? * रत्नमालिका• अपि तु सर्वः कोऽपि भूष्यत इति । तत्र दृष्टाः प्रत्यक्षेण ज्ञाता अदृष्टा अनुमानाऽऽगमोपदेशगम्या येऽर्था । याः प्रभावः
अभिधेयाः प्रयोजनानि वा, यतः - अर्थोऽभिधेयहेतुप्रयोजननिवृत्तिष्वित्यनेकार्थवचनात्तेषां साधनं फलाभिमुखी- * करणम् । तत्र पटीयान्निपुणः, विमलेति विमला हितोपदेशरूपतया परमार्थशुद्धा ये प्रश्नाः शिष्यकृताः पृच्छास्तेषां *
यान्युत्तराणि गुरूक्तवचनरूपाणि तान्येव रत्नानि पुष्परागादीनि तेषां मालिका श्रेणिः कंठिकालक्षणा तया, र * प्रश्नोत्तरपूर्वपदभणनाज्ज्योतिषरत्नमालानिरासः । कंठस्थितयेति कंठे गले स्थितया पाठशुद्धया, न तु में * श्रुताश्रुतरूपतयेति । यथा कश्चित्प्राणी कंठपीठस्थया रत्नमालिकया सभालोकमंडनं स्यात्तथैतयापि जिह्वापाठेन * * सुभाषितोपदेशरूपया युक्तायुक्तार्थविचारणप्रवणः सभ्यसभालंकरणं भवति । यदुक्तं-मांसपिंडं न सा जिह्वा । या र * न वेत्ति सुभाषितम् ।। मन्ये काकभयस्यार्थे । दंतांतरनिवेशिता ।।१।। इत्यार्यार्थः ।।२।। अत्र ग्रन्थे भगवन् ! * किमुपादेयम् ? इत्यादिशिष्यकृताश्चतुःषष्टिप्रश्नाः, तथा गुरुवचनमित्यादिगुरूक्तानि त्र्यधिकाशीतिरुत्तराणि । * * अतः प्रत्येकं तच्छ्रवणेच्छुः शिष्यः शिरसि करौ किरीटीकृत्य गुरुं प्रति प्रथमं प्रश्नमाह -
प्र०१-भगवन् ! किमुपादेयम् ? व्याख्या - हे भगवन् ! ज्ञानादिसंपत्संपन्न ! अर्थापत्त्या पूज्यपादारविंदमरन्दा- सटीका * स्वादभृङ्गेण मयान्येन वा किमुपादेयं ग्राह्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि विशुद्धश्रद्धाराजहंसीमानसं * ॥४॥
प्रश्नो .
Jan Ede
For Personal & Private Use On
www.jainelibrary.org