SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्र.१७ अभयाकपिलयो रालापः * अथ कदाचित् तत्र पुर्यां समग्रजनमनःप्रमोददायिनी शक्रमहोत्सवे जाते दधिवाहननृपः कपिलपुरोहित- * * सुदर्शनादिभिः सह क्रीडितुमुद्यानमगात्, अभयाऽपि कपिलायुता तमन्वगात्, सुदर्शनपत्यपि सषटपुत्रा यानारूढा * * तत्राऽऽगता, तामालोक्य कपिलाभयामभाणीत्-देवि पुरस्तात्केयं । बाला बालेंदुसदृशभालतला । * अभयाप्यूचे-प्रियसखि ! गृहलक्ष्मीरिव । सुदर्शनस्य प्रियतमेयम् ।।१।। कपिलाऽपि तत् श्रुत्वा सविस्मया स्माह* हे देवि ! यदसौ तस्य । कान्ता तत्कौतुकं मम || अभयाप्यपृच्छत्-हे वयस्ये किमेतस्या-स्तव स्वांते कुतूहलम् * * ॥१॥ कपिलाप्यवदत्-करभोरु ! यदेतस्यामेतावन्तोऽभवन् सुताः । अभयाप्यूचे-हले स्वाधीनकांतायाः । किं * चित्रं पुत्रसंभवे ?।।१।। कपिलाप्याहस्म-देव्येवं हि भवत्येव । चेत्पतिः पुरुषो भवेत् । अयं तु पंडको मर्त्य* वेषधारी सुदर्शनः ।।१।। अभयाऽप्यगृणात्-सखि ! त्वया कथंकार-मेतद् ज्ञातं निगद्यताम् ।। आश्चर्याऽऽकर्णने * * वांछा । कस्य कस्य न जायते ?॥१॥ ततः कपिलया स्वानुभूते सुदर्शनस्वरूपे प्रोक्तेऽभयाप्यब्रवीत्-यद्येवं सखि * * तर्हि त्वं । वंचिता तेन धीमता ।। यत्परस्त्रीष्वसौ बाढं । षंढो न तु निजस्त्रियाम् ॥१॥ कपिलाऽप्यभया* वचनोत्पन्नयासूययाऽऽचख्यौ-देवि चेद्वंचिता ताव-द्यतोऽहं मूढमानसा ।। अस्मिन्नर्थे विदग्धाया-स्तवापि ज्ञास्यते * मतिः ॥१॥ अभयाप्युवाच-मुग्धे रागादसंज्ञस्या-प्यश्मनः पाणिना मया ॥ धृतस्य स्याद्रयाद् द्रावः । ससंज्ञस्य * * तु का कथा ।।१।। कपिलाप्युवाच हे देव्येवमहंकार-विकारं मा वृथा कुरु ।। करोषि चेदहंकारं । रमयस्व * र सुदर्शनम् ।।१।। अभयापि जगौ-अत्रार्थे सखि मे गर्वः । सार्थको न निरर्थकः ।। यतो रमित एवायं । मया ज्ञेयः प्रश्नो. सटीका ॥२७॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy