SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ नारीणां नाटकम् * पितापि तं नाम्नाऽऽकृत्या च मनोरमया कन्यया पर्यणाययत् । सुदर्शनोऽपि तया सह धर्माऽर्थाऽबाधया कामं * प्र.१७ * कृतार्थयन् कियत्कालं गमयांचकार । कपटइतश्चास्या एव पुर्या वास्तव्यो राजपूज्यः कपिलो नाम पुरोधाः सुदर्शनेन सह सौहृदं वांछन् भृत्य इव । प्रायस्तदभ्यर्णवर्त्यभूत् । कदाचित्कपिलपत्नी कपिला प्रियमूचे-कान्त ! दुःशकुनानीव । नित्यकृत्यानि विस्मरन् । * इयन्तं समयं यावत् । क्व तिष्ठसि निवेदय ।।१॥ कपिलोऽप्याहस्म-प्रिये सुदर्शनस्याहं । पार्श्वे तिष्ठामि में * सर्वदा ।। कपिलाप्याऽऽलपत्-कोऽसौ सुदर्शन इति । जीवितेश ! निवेदय ।।१।। कपिलोऽप्यूचिवान्-सुकेशि ! * * विश्वप्रार्थंक-दर्शनं मे सुदर्शनम् ।। वयस्यं चेन्न वेत्सि त्वं । तद्वेत्स्येव न किंचन ।।१॥ कपिलाप्यालपत्–इदानीमपि र * हे नाथ ! ज्ञापय स्वं सुहृद्वरम् ।। न प्रार्थितः कदापि स्या-दाशाभंगकरो महान् ।।१।। कपिलोऽप्यब्रवीत्-सुमुखि * * ममैषर्षभ-दासार्हद्दासिकासुतः सुमतिः ॥ रूपेण पंचबाणः । कांत्येंदुस्तेजसा तपनः ।।२।। गांभीर्येण पयोधिः । ते क्षमयोर्वी वितरणेन कल्पतरुः ।। प्रियवचनामृतकुंडं । मंडनमखिलागिवर्गस्य ।।३।। युग्मम् ।। यद्वा किं गुणनिकरै-* y रपरैरुक्तैरमुष्य यस्य पुनः ।। एकः शशिकरलील-शीलगुणः क्वापि न स्खलति ।।४।। तन्निशम्य सकामं सा / * सकामाभूत्, भवन्ति च प्रायेणेदृशो विप्रस्त्रियः । सस्मार च परममन्त्रमिव सुदर्शनाभिसारणोपायम्। प्रश्नो. ___अन्यदा नृपादेशात्कपिले ग्रामांतरं गते सति कपिला सुदर्शनावासमेत्य तं प्रत्यूचे-सुंदर ! त्वद्वयस्यस्य । - सटीका * शरीरेऽपाटवं महत् ।। अतस्त्वन्मिलनायाऽत्र । नाशकिष्ट स शिष्टधीः ॥१॥ किन्तु त्वद्विरहात्तस्या-पाटवं * ॥१२५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy