SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्र.१७ श्रेष्ठिना कथितो महामन्त्रप्रभावः * लग्ना ॥१॥ तस्यान्हं महिषीवारणं कुर्वाणस्य कदाचिदागात्करालः शीतकालः, यस्मिन् कृशानि दिवसानि * * कुरंगनेत्रा । दंतच्छदेषु मदनं विनिवेशयन्ति ।। दीर्घा निशा धनिजनः सुखितो न निःस्वः । शीतं प्रभूतमतिहर्षकरः * कृशानुः ।।१।। तस्य शीततॊर्माघमासे दिवसावसाने सैरिभीचारणानंतरं चलितः सुभगो प्रावरणरहितं प्रतिमास्थमेकं * - मुनि वीक्ष्य दध्यौ-अयं धन्यो महात्मा यो । हिमपातातिदुस्सहे ॥ यामिनीसमये शैल । इव तिष्ठत्यकंपितः ॥१॥ * इति चिन्तयंश्च ययौ गृहं, तत्रापि तमेव मुनि मनसि स्मरन्निशामनैषीत् । अविभातायामेव विभावर्यां महिषीर्गृहीत्वा रे * स यतिपार्श्वमियाय, भक्त्या तमभिनम्य चोपासामास । अहो कोऽपि स्वाभाविकस्तादृशानामपि विनयः ! * र यदुक्तं-को चित्तेइ मऊरं । गई च को कुणइ रायहंसाणं ।। को कुवलयाण गंधं । विणयं च कुलप्पसूयाणं ॥१॥ * अत्रांतरे कायोत्सर्गस्थं तं मुनि विनन्तुमिवोदयाचलचूलिकामलंकुर्वति गभस्तिमालिनि स मुनिनमो अरिहंताण* मित्युच्चैरुच्चरन् द्वितीयो रविरिव खमुत्पपात । अवश्यमाकाशगामिनी विद्येयमिति धिया सुभगोऽपि सुकलत्रमिव * तन्नमस्कारपदं हृदि निदधे । ततःप्रभृति चोपविशन्नुत्तिष्ठन् स्वपन् जाग्रन्नश्नन् गृहे बहिरपि तत्पठन्नन्यदा श्रेष्ठिना । पृष्ट:-भो भद्र भवता पंच-परमेष्ठिनमस्कृतेः ।। इदं पदं कुतोऽवापि । चिन्तारलमिवानघम् ।।१।। सुभगोऽपि * यथावदकथयत् । साधु भो साधु भोः । इति तं प्रशंसन् श्रेष्ठ्यप्याहस्म-न केवलं महाभाग ! नभोगमनकारणम् ।। * विद्यासौ किन्तु परम-पदाप्तेरपि कारणम् ॥१।। तदमुष्य नमस्कार-स्यानुभावं हि कश्चन || परिमातुं न * * शक्नोति । तोयं तोयनिधेरिव ।।१।। अत एतत्पदं पुण्य-योगादासादितं त्वया ।। किंत्विदं ह्यपवित्रेण । भणितव्यं प्रश्नो. सटीका ॥१२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy