________________
* न ज्ञायते कदाचित्त-द्विधत्ते दुःशकं हि यत् ॥५।। तत्प्रसाद्याधुनैवास्य । दीयतां दयिता यतः ।। शतशः सन्ति * प्र.१६ * लावण्या-वज्ञातस्वः स्त्रियःस्त्रियः ।।६।। एवमुक्तोऽपि भूपस्तद्वचो नामन्यत्, कुतो रागांधानां सदुपदेशावकाशः? * त्याज्यो
उक्तं च-उद्दाम-कामकामल-पविलुत्तविवेयचक्खुणो मणुया ॥ खुप्पंति मग्गचुक्का । अकिच्चपंकंपि किंचुज्जं । रागाधभावः * ॥१॥ ततो भूपो भृकुटिविकटास्यश्चपेटामुत्पाट्य तानित्यूचे-रे रे वः शिक्षया नैवा-ऽस्माकं किंचित्प्रयोजनम् ॥ * * गत्वा निजपितॄणां स्वां । शिक्षा मंक्षु प्रयच्छत ।।१।। पुनरागत्य यद्येवं । भवन्तः कथयिष्यथ ।। तदा वक्त्राणि वो * + वंश-स्फोटं पातयितास्म्यहम् ॥२॥ इति श्रुत्वा तूष्णीकास्ते शनैः शनैः शिरः कंडूय स्वं स्वं स्थानमगुः । * समुद्रदत्तोऽपि तत्स्वरूपमाकर्ण्य स्ववर्णिनीवियोगदुःस्थस्तापसीदीक्षां कक्षीकृत्य कृताऽज्ञानकष्टक्रियः प्रांतेऽस्य * * पापस्य नृपस्य परभवेऽपि विनाशाय स्यामिति निदानपरो रक्षोजातौ रक्षोऽजनि । किं मया प्राग्भवे सुकृतं के * कृतम् ? इति प्रयुक्तविभंगज्ञानज्ञातवैरस्तं भूपं नानाप्रकारैर्मारयित्वा स्ववैराळूपारपारगोऽभूत् । इत्थं जना र हेमरथस्य वृत्तं । स्वकर्णयोर्गोचरतां प्रणीय ।। रागांधभावं त्यजताऽऽशु चेद्वः । शिवांगनासंगविधौ मनीषा ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ रागांधत्वे हेमरथनृपकथा ।। रागांधवैषयिकीं हेमरथकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तदशं प्रश्नमाह -
प्रश्नो. प्र.१७ – कः शूरः ? व्याख्या - हे भगवन् ! स्थानांगे शूरशब्दश्चतुर्धास्ति, यतः-चत्तारि सूरा पन्नत्ता, * सटीका * तंजहा-खंतिसूरे तवसूरे दाणसूरे युद्धसूरे, खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे * ॥१२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org