SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मरणाद् भयम् **************kkkkkkk * तदिदानीमपि हि मनः । संस्थापय मार्गे जिनेश्वरप्रोक्ते । कर्मग्रंथिं भित्वा । दुःखस्य जलांजलिं यच्छ ॥४॥ प्र.१५ * अंगीकुरु सम्यक्त्वं । रुंधितरामिंद्रियाणि पंचापि ।। प्रतिपद्यस्वानशनं । विनाशकृत्सकलदुःखानाम् ।।५।। त्वत्प्रत्यक्षम् हि तदा । श्रामण्यं यन्मया समाचीर्णम् ।। तेनानुषंगिकफलं । ममाऽभवत् त्रिदशसंपदियम् ॥६।। इति वचोऽनंतरं । * स्थविररूपमपहाय स पितृजीवः सुरीभूय तं संवेगवासितस्वातं मत्वा तस्यानशनं च वितीर्य निर्जरयितुमुपचक्राम । * सर्वे भावा भवेऽनित्या । न कश्चित् त्राणमत्र हि ।। प्रत्यहं सुखदुःखाभ्या-मेष जीवो विडंब्यते ॥१॥ अन्यो *जीवोऽन्यच्छरीरं । का तत्र प्रतिबंधधीः ।। मलबंधस्तु देहोऽयं । पापैस्तस्य कृते कृतम् ।।२।। योगान् रुंध्यशुभान् * गाढं । प्रयुंजय शुभान् पुनः ।। सकामनिर्जरामंतश्चित्तं चिंतय यत्नतः ॥३॥ क्षमस्व जीवांश्च सर्वान् । परिभावय * * भावनाः ।। पुण्यानुमोदनां पाप-गर्हामप्युररीकुरु ॥४॥ एवमपत्यजीवं लुलापं प्रबोध्य पितृजीवो देवो दिवमगात्। * यमवाहनोऽपि समाधिना मृत्वा स्वर्गमगमत् । इति शुभंकरसाधुकथानकं । परिविभाव्य जना निजमानसे ।। * त्यजत कृत्यविधौ सुकृताभिधे । ह्यलसतां यदि वांछत मंगलम् ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वैरिरूपानुद्योगे शुभंकरक्षुल्लककथा ।। वैरिरूपानुद्योगवैषयिकी शुभंकरक्षुल्लककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचदशं प्रश्नमाह - प्र.१५ – कस्माद्भयमिह ? व्याख्या - हे भगवन् ! इह संसारे सकललोकव्यथाकारिणि इहपरलोका-* सटीका * दानाजीविकाकस्मादश्लाघामरणरूपाणि समयोक्तानि सप्त भयानि सन्ति । तथाप्येषामन्तः कस्मादप्यधिकं भयम् ? * ॥११५॥ *************** प्रश्नो.
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy