________________
रजस्वलत्वेनोत्पन्नं विलोक्य गाढमुद्विग्नमनास्तत्प्रतिबोधाय नैगमीभूय भुव्यवतीर्य च धनिकं मूल्येन तममार्गयत् । धनिकेनापि मनईप्सितवित्तावाप्तितुष्टेन तस्य स सैरिभो व्यतारि । सोऽपि तं महिषं गृहीत्वा कोपात्तदुपरि प्रेतपतिरिवारुह्य पुराद्बहिरगात् । तदानीं महाभीष्मे ग्रीष्मे नखंपचायां भुवि खरकरकरप्रतप्तरजःपुंज पूरितां गोणीं तदुपरि प्रक्षिप्यारुह्य च तावल्लगुडेन तमताडयद्यावन्निर्गतजिह्वो धीरस्कंधोऽसौ भुव्यपतत्, ‘तात ! न शक्नोमि’ इत्युक्त्वा पुनर्नानाप्रकारैर्मारैः स तं लुलापमुत्थाप्य स्थूलस्थूलवालुकायामचालयत् यावत्सोऽभूत्तृष्णातरलतालुपुटः, ‘तात न शक्नोमि' इति पुनर्भणित्वा स तं गाढमाजघान । सोऽप्यनाथ इव तेन कुट्यमानः कटु रटतिस्म । ततस्तादृक्प्रस्वेदबिंदुवृंददंतुरगात्रयष्टिः कृष्णशृंगो मुहुर्मुहुः 'तात न शक्नोमि' इति शृण्वन्नीहापोहं प्रविष्टः । क्षीणे च निबिडकर्मणि चैतन्यमाप्तो दंशभीरुः प्राग्भवं स्मरन् क्षणमेकं निश्चलोऽजनि । सुरनैगमोऽपि तद्भावं मत्वा प्रकटितस्थविररूपस्तत्पृष्ठाज्जवादवातरत् । ततो यथा यथा स्थविरः कारुण्यभवन्नेत्रांबुधाराभिस्तं सिषेच, तथा तथा तस्य कर्मपटलमगलत् । तदोन्मीलिताक्षो रक्ताक्षो यावत्स्वपितरमीक्षांचकार तावदंतरांतराहिताग्निर्वंशालि ददाह, यावज्जज्ञे गिरिनिर्जर इव बाष्पजलभरप्लावितधरः कासारः, तावन्मधुरया गिरा स्थविरो व्याकरोत्वत्स ! स्वकर्म भुंजन् । किं ताम्यसि चेतसि मदुक्तम् || शृणु हितवचः कुरु धृतिं । पश्चात्तापेन किं ह्यधुना ||१| पुनरपि नृभवोऽसुलभो । धर्मोऽपि च जिनवरेंद्रनिर्दिष्टः || पश्चात्प्रमादितं य-तत्कोट्या काकिणी क्रीता ||२| तिर्यक्त्वमपि प्राप्य । श्रद्धत्से चेन्न जैनतत्त्वानि ॥ तर्हि पतितो भवाब्धा - वधिकतरं कष्टमनुभवसि ||३||
Jain Education Intemational.
For Personal & Private Use Only
प्र. १४ पश्चात्तापेन
हितवचसां
श्रवणम्
प्रश्नो.
सटीका
॥११४॥
w.jainelibrary.org