________________
*****
इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतं नाम नगरं, विश्वविश्वजनमानसवृत्ते - वछितार्थनिवहं जनयंत्याः ।। नैकमंडलसमागतलक्ष्म्या । यन्निकेतनमिव प्रतिभाति ||१|| तत्र हितंकरो नाम वणिक्, यदीयमानसेऽमले । विशुद्धभावनाजले ।। सुबुद्धिराजहंसिका । प्रखेलतिस्म रंजिका ||१|| सोऽन्यदा तत्रागतान् धर्मघोषसूरीन् श्रुत्वा तद्वंदनाय शुभंकराऽभिधसुतयुतो ययौ नत्वा च तस्मिन् सपुत्रे निविष्टे गुरवोऽपि तत्प्रतिबोधायैमां देशनां व्यधुः - रागद्वेषोरुतुंबं लसदरतिरतिस्थूलमालं गदाली-घट्याकीर्णं कषायारकमघसलिलं जन्ममृत्यूक्षयुग्मम् ॥ अत्यंताज्ञानसूनं कुगतिफलकरं द्राग्भवाख्यारघट्टं । बुद्धवा तच्छित्तये भोः प्रयतत यदि वः शाश्वते शर्मणीहा ||१॥ इति श्रुत्वा संसारारघट्टोद्विग्नः ससूनुर्हितंकरो गुरुपार्श्वे प्रवव्राज । शिक्षतिस्म ( भो धीमन् ! भववारिधौ निरवधौ सम्मज्जतां प्राणिनां । निस्ताराय भवेत्तरां तरणिवद्धर्मो जिनेन्द्रोदितः । तच्चिन्तामणिवत्कथंचन समासाद्याचिरादेव तं । साफल्यं नयत व्रतादिविधेन मानुष्यकं स्वं जनुः । इति श्रुत्वा भवोद्विग्नो गुरून् व्यजिज्ञपत - भगवन् ! प्रसद्य दीक्षय मामेषोऽपि हि भवत्प्रसादात् । संसारमहाम्भोधिं तीर्त्वा प्राप्नोतु सुखमसमम् । ततो गुरुभिर्दीक्षितौ पितापुत्रौ शिक्षितौ च पाठा.) द्विविधामपि शिक्षां विजहार च सूरिभिः समं प्रवर्तते आचार्यादिविनये स्वयं हितंकरः, न तु तनयं प्रवर्तयति । सहते स्वयं परीषहान्, न तु सूनुं साहयति । जागर्ति स्वयमुभे अपि पौरुष्यौ, न तु बालोऽयमिति सुतं जागरयति । क्रमादभूद् वृषभवत्सुतक्षुल्लो व्रतभारसहः, परं सुखलालसो न तमुद्वोढुमुद्यमयति । गोचरचर्यायां नियुक्तस्तात ! न शक्नोमीति वक्ति । तथा दूरदेशविहारे, षड्विधाऽऽवश्यकविधौ,
ucation Interna
For Personal & Private Use
प्र. १४ व्रतभाराऽ सहः क्षुल्ल
मुनिः
प्रश्नो.
सटीका
॥११२॥