________________
अधिक
* धूपनैवेद्यदानप्रमुखाभिः क्रियाभिर्यक्षं सविशेषमारराध । एवमन्वहं तयोपास्यमानः स यक्षः प्रकटीभूयाऽभणत्-हे * प्र.१३ * पुण्यवति तुष्टोऽस्मि । याचस्वाऽऽत्मन ईहितम् ।। बुद्धिरप्यभ्यधत्त-यद्येवं यक्ष तद्यच्छ । सिद्धेर्मे द्विगुणं धनम् * उ ||१।। एवमस्त्वित्युक्त्वा यक्षोऽलक्ष्योऽजनि । बुद्धिरपि सिद्धेः सकाशादधिकं श्रीभारेणाशोभत । अन्यदा सिद्धिर्बद्धरमंदार तृष्णांधायाः * संपदं वीक्ष्य तदुपरि मत्सरं वहन्ती पुनस्तं यक्षमसेवत । यक्षोऽपि प्रत्यक्षीभूयाऽभाणीत्-सिद्धे यत्त्वन्मनोऽभीष्टं। *
बुद्धेर्विलापः * तद् वृणीष्वतरां वरम् ॥ प्रयच्छामि यतो देव-दर्शनं सफलं भवेत् ।।१।। ततः सिद्धिर्यत्किमप्यस्मात्प्रार्थयिष्यामि *
बुद्धिरपि तद्विगुणं प्रार्थयित्री ततस्तत्किंचिद्याचे येन द्विगुणं याचितमस्यै महापायाय स्यादिति विचिंत्योवाच* यक्षराज ! त्वमेकेन । मामक्ष्णा मंक्षु काणय ।। यक्षोऽप्याचख्यौ-सिद्धे तव भवत्वेव-मृतवाग्देवता यतः ॥१॥ * ततः सिद्धिः काणाभूत्, बभ्राम च बुद्धिविडंबनायात्यंताधिकद्धिः । । * अन्येधुर्बुद्धिः सिद्धेः सविशेषां श्रियं दृष्ट्वा तृष्णातरलितस्वांता पुनस्तं गुह्यकमाराधयांचकार । वटवास्यपि के * प्रकटीभूयाऽभणत्-बुद्धे पुनः किमित्येष । जन आराधितस्त्वया ।। बुद्धिरप्यभ्यधत्त-यद्दत्तं यक्ष मत्सख्यै । *
तद्यच्छ द्विगुणं मम ।।१।। एवमस्त्विति यक्षेणोक्ते बुद्धेः पक्वपंपोटकवत्स्फुटिते उभे अपि नेत्रे । ततोऽधिक
तृष्णयांधत्वमाप्य बुद्धिरेवं व्यलपत्-हा हतयक्षेदृक्षे । दुःखांभोधौ निपातिताया मे ।। जन्माथ कथं यास्यति । प्रश्नो. * तत्क्षयमेतु तव प्रसादोऽयम् ।।१।। यक्षोऽपीषद्विहस्याऽऽहस्म-आः पापे मत्सरव्यापे । मह्यं किमिति कुप्यसि ।। * सटीका * या त्वया प्रार्थनाऽकारि । सा मया तव पूरिता ।।१।। किंतु कोपं कुरुष्व त्वं । तृष्णाया उपरि स्फुटम् ।। किं ते * ॥११०॥
E
ducation International
For Pe
Inal &Private use only
www.jainelibrary.org