SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ kkkkkkkkkkkkk * नाम् ॥ गवां गणैः पार्वणशार्वरीश-करावदातैर्हसतीव बाढम् ।।१।। तत्र द्वे जरत्यौ निर्वीरे (पतिपुत्रवर्जिते) * प्र.१३ * मिथः सख्यौ सिद्धिबुद्धिनाम्न्यौ, यथा सुमिष्टेतरवारिपूरै-भृशं भृतः स्यान्मरुकूपदेशः ।। तथैव विश्वत्रयशत्रुरूप-र समृद्धिवत्याः सिद्धेः * दारिद्यमुद्राश्रितविग्रहे ये ॥१।। तयोराद्याऽन्येद्युस्तद्ग्रामासन्नोद्यानांतर्वर्तिदेवकुलस्थं लोकप्रकटं मनोवांछितकरं । सकाशात् शुभंकरं यक्षमाराधयामास । प्रमार्जयति सा त्रिसंध्यं तद्देवकुलं, ददाति तत्र गोमयगृहलिकां, पूरयति स्वस्तिकं, संपदुपाय * पूजयति धूपोद्ग्रहणपूर्वमपूर्वभक्त्या यक्षम् । एवं प्रत्यहं तस्यां कुर्वत्यां यक्षः प्रत्यक्षीभूयाऽभाषत-भद्रेऽहमभवं रे पृच्छा * तुष्ट-स्त्वद्भक्त्या वृणु तद्वरम् ।। सिद्धिरप्यूचे-देव तद्देहि येन स्या-निर्वाहः शाश्वतो मम ॥१॥ यक्षोऽप्याख्यत्-हे है । सिद्धे भव निश्चिंता । मदंघ्रिद्वितयांतिके ।। एकैकं हेमदीनार-मेत्य ग्राह्यं दिने दिने ।।१।। तदादि सा यक्षादन्वहमेकैकं । * दीनारं प्राप, भेजेऽधिकाधिकामृद्धिम् । पुरा दंडीखंडवस्त्रापि तदा चीनांशुकानि पर्यधत्त, पुराऽनवाप्ताऽऽरनालापि में तदा स्निग्धदुग्धाद्यभुंक्त, पुरा तृणकुटीरापि तदा गवाक्षभास्वरे मंदिरे विललास, पुरा परगृहखंडनदलनपेषणादिभिः * प्राणवृत्तिं वितन्वत्यपि तदा सुरूपाभिर्दासीभिरसेव्यत, पुरा दंतसारत्वक्तांबूलाऽपि तदा नागलतादलक्रमुकचूर्ण पूर्णतांबूलमास्वादयामास । एकदेदृशीं सिद्धेः समृद्धिं दृष्ट्वा बुद्धिस्तदुपरि द्वेषं वहन्तीत्यचिंतयत्-ईदृगृद्धिः कुतो* ऽमुष्या । उतालं चिंतयानया ।। एनामेव हि विश्वास्य । गत्वा पृच्छाम्यसंशयम् ।।१।। ततो बुद्धिः सिद्धेः सविध* मेत्येत्यभ्यधात्-सखि तावदसौ संपत् । कुतस्ते समुपस्थिता ।। सिद्धिरप्यार्यचित्ताऽवोचत्-हले ! लक्ष्मीविलासोऽयं । * सटीका यक्षमाहात्म्यतो मम ।।१।। बुद्धिरप्येतत् श्रुत्वा गत्वा च तद्देवकुलसोपानप्रमार्जनांगणलिंपनमंडनस्नपनपूजनपुष्प- ॥१०॥ प्रश्नो. Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy