SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ * स्वमक्षिपत्, अहह ! सुदुस्सहा हुतवहव्यथातोऽपि विरहव्यथा ! भणितं च-दहनजा न पृथुर्दवथुव्यथा । विरहजैव * प्र.१३ * पृथुर्यदि नेदृशम् ।। दहनमाशु विशन्ति कथं स्त्रियः । प्रियमपासुमुपासितुमुद्वराः ।।१।। नरसुंदरनरेंद्रोऽपीदृशं * 'तृष्णा' एव वैशसं वीक्ष्य संविग्नः स्वसूनुसाद्राज्यं कृत्वा श्रीषेणाऽऽचार्यपार्श्वे प्रव्रज्य क्रमात्पंचमे ब्रह्माढे देवलोके सुरोऽभूत्, र भववल्ली * ततश्च कतिचिद्भवानन्तरं परं पदमासदत् । इति सुरसुंदरनरवरकथिका-मायति विरसां श्रुत्वा भविकाः ।। * दस्यूनिव विषयान् परिहरत । स्वर्गादौ यदि वांछां कुरुत ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दस्यूपमविषयेषु सुरसुंदरनृपकथा ।। दस्युसदृग्विषयवैषयिकी सुरसुंदरनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयोदशं प्रश्नमाह - * प्र.१३ – का भववल्ली ? व्याख्या - हे भगवन् ! का भवस्य प्रागुक्तस्वरूपस्य वल्ली लता ? यथाऽ* भिनवाऽम्भोदसिच्यमाना वीरुत्पत्रपुष्पफलशालिनी स्यात्, तथा चातुर्गतिकभवपरंपराहेतुः का भवेत् ? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि त्रयोदशमुत्तरमाह-तृष्णा, व्याख्या हे वत्स ! धनधान्यादिपरिग्रहप्राप्तावप्यतृप्तिके स्तृष्णोच्यते, न च सर्वेद्रियजीर्णतायामपि क्वापि जीवानां तृष्णा जीर्यते । यतः-यस्या बीजमहंकृतिगुरुतरं मूलं । * ममेति ग्रहो । नित्यत्वस्मृतिरंकुरः सुतसुहृज्जात्यादयः पल्लवाः ।। स्कंधो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः । ॐ * सा तृष्णालतिका विडंबयति नो कं कं जनं भूतले ।।१।। अत्रार्थे सिद्धिबुद्धिकथा, तथाहि - सटीका ...इहैव जंबूद्वीपे द्वीपे भारते वर्षे शालिग्रामो नाम ग्रामः, यः स्वर्गमेकामरधेनुकं स्वै-निवासिलोकार्पितवांछिता- * ॥१०८॥ प्रश्नो.
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy