________________
* लेखं च वीक्ष्य वाचयित्वा च विलक्षमुखो देवीमवोचत्-सुभ्र ! पश्यापराधेऽपि । सदा संमानितैरपि ॥ तैरमात्यादिभिः प्र.१२ * पापैः। किमेवं कृतमावयोः ।।१।। राज्यप्याहस्म-जीवितेश किमेतेन । विमर्शेन मनस्विनाम् ।। अचिंतनीयो * मर्मण्या हतो
मालवपतिः - व्यापारो । हतकस्याब्जजन्मनः ॥१॥ यतः-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ र विधिरेव तानि जनयति । यानि पुमान्नैव चिंतयति ॥१।। तन्मुंच मुंच खेदं त्वं । तामलिप्त्यां महापुरि ।। यावो में * मिलावः सौंदर्य-नृवर्यं नरसुंदरम् ।।२।। राजापि तथैवांगीकृत्य प्रियाकलितश्चलितः, क्रमादाप तामलिप्तीपुरीपरिसरा-*
ऽऽरामं, ततो राज्योक्तं-नाथ । क्षणं प्रतीक्षस्वा-त्र यावद्भवदागमम् ।। निवेदयामि गत्वाहं । बंधोः पुरत आत्मनः *
॥१॥ इत्युक्त्वाऽगाद्वंधुमती बंधुसविधं, ददर्श च सामंतामात्यादिसेव्यमानपदपंकजं सहजं, तेनाप्यतर्किताऽऽगमना । * दृष्टा स्वसा, विस्मितेन च पृष्टा व्यतिकरं, तयाप्युक्तं सर्वं स्वरूपम् । सोऽपि नरसुंदरस्तदाकर्ण्य संजातहर्षप्रकर्षस्तदभि-* * मुखमचलच्चतुरंगबलकलितः । अत्रांतरे सोऽवंतीश्वरोऽतिक्षुधितो वालुंकीभक्षणाय कस्मिंश्चिच्चिर्भटीकच्छे *
चौरवत्प्रच्छन्नं प्रविशन् कच्छस्वामिना दृष्टः, यष्ट्या मर्मण्याहतश्च कथमपि ततो निर्गत्य काष्ठवन्निश्चेष्टोऽपतन्मार्ग* भुवि । नरसुंदरोऽपि सह चलद्दलप्रोल्लसद्रजःपुंजाऽऽच्छादितनभोंगणो रथारूढो भगिनीपतिसंमुखं गच्छंस्तत्रैव । प्रदेशे दैवादाप्तः । दर्शनाऽभावात्तच्चक्रधारया तथापतितस्य मालवपतेः कमलनालवद द्विधा कतः
प्रश्नो. अहह परिणामदारुणा दस्यव इव विषयाः । उक्तं च-यथा मलिम्लचाः प्राणि-गणस्योपद्रवप्रदाः ।। तथामी
सटीका रा विषया हन्त । जीवितव्यापहारकाः ।।१।। तामलिप्तीशोऽपि प्रागुक्तोद्याने स्वसृपतिमपश्यन् संभ्रांतमना भगिनीं ॥१०॥
Jan Education Interational
or Personal & Private Use Only