________________
जनयन्ती स्वयंवरमंडपममंडयत्, भूपा अपि तां पश्यन्तोऽचिंतयन्- विद्मस्तमेव सुभगं । यस्यैषा कंठकंदले मालाम् ।। निक्षिपति पुरीपरिमल-मिलदलिमालां वरणमालाम् ||१|| इति चिंतयत्सु तेषु पत्रलेखा बंधुमतीमित्यूचेअयं मगधनायको गुणगणैर्गरीयानयं । वितीर्णरिपुवर्णिनीसुरतरंगभंगोंगराट् || अयं सुकृतनिर्जितोद्धुरकलिः कलिंगेश्वरोऽयमर्दितसुदुर्दमक्षितिधवोंगबंगाधिपः || १॥
अनया परिपाट्या प्रकटीयमानेषु महीनेषु विमुखीं सुमुखीं वीक्ष्य 'देवि ! पुरः पश्य' इति वदन्ती पुनः पत्रलेखाचख्यौ–अयं नरेंद्रः सुरसुंदराख्यो - ऽवंतीश्वरो मार इवाऽभिरामः । यद्यत्र वांछास्ति तदस्य कंठे । निवेशयेमां वरणस्रजं स्राक् ||१|| इति श्रुत्वोदंचद्रोमांचा बंधुमती सुरसुंदरभूपालकंठकंदले वरमालामिलापालसमक्षमक्षिपत् । हृष्टं तत्परिकरेण, विषण्णमन्यराजवर्गेण, साधु साध्वनया वरो वृत इति सर्वत्र प्रससार साधुवादः, कारितो धवलमंगलपूर्वं पाणिपीडनमहामहः, दत्तं पाणिमोचनपर्वणि करितुरगादि । ततः सत्कृतिपूर्वमुर्वीश्वरेषु विसृष्टेषु शालकभूपालेन स्थापितः कतिपयदिनानि स सबहुमानं भगिनीपतिः । तदनु सुरसुंदरभूपुरंदरस्तामलिप्तीश्वरं मुत्कलाप्य सपत्नीको ययौ विशालां प्राविशच्चोत्पताकं स्वकं निकेतनम् । ततो बंधुमत्या समं धर्मार्थवर्जनात्कामार्थमेव सेवतेस्म । करोतिस्मांतरांतरा सुरापानं, शिथिलयतिस्म राज्यचिंताम् । एवं प्रमत्ते राज्ञि राज्ये राष्ट्रे च सीदति सति मंत्र्याद्यैः किमप्यालोच्य तत्पुत्रं राज्ये न्यस्य मद्यं पाययित्वा पुनरनागमनसूचकलेखपूर्वं तौ दंपती निशि प्रसुप्तौ शून्यारण्ये मोचयांचक्राते । प्रातः शकुंतकुलकलकलगलन्निद्रः क्ष्मेंद्रः करिहरिहरिणादिक्षुद्रसत्त्वतारं कांतारं
Only
प्र. १२
प्रमत्तराज्ञः
शून्याऽरण्ये
मोचनम्
प्रश्नो.
सटीका
॥१०५॥
brary.org