SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ * इहैव जंबूद्वीपे द्वीपे भारत वर्षे उज्जयिनी नाम नगरी, यत्रास्ति लोकः परदोषभाषणे । मूकः परस्त्र्यंग-* प्र.११ निभालनेऽन्धलः ।। दाने सदैव व्यसनी यशोऽर्जने । लुब्धः परद्रव्यहृतौ तु पंगुलः ।।१।। तत्र सुरसुंदरो नाम * वरेण्यस्वयं वरमंडपः राजा, युद्धभूमिनिहतारिभूधवा-ऽन्तःपुरीनयनवारिसेकतः ।। यत्प्रतापतरुरुद्गतोऽभव-त्तिग्मरश्मिमहसां विलोपकः ।।१।। एकदा संसदासीनस्य तस्य पुरः कश्चिद् दूतः समेत्य नत्यनंतरमित्यवादीत्-देव ! देवपुरीप्राया । तामलिप्ती में महापुरी ।। तस्यां नृपः कृताराति-दरश्रीनरसुंदरः ।।१।। तस्य राज्ञः कनिष्ठापि । सौभाग्यादिगुणोदयैः ।। ज्येष्ठा * बंधुमती नाम-धेयतो विद्यते स्वसा ॥२।। स तु भूपः सहोदर्या । अनुरूपवराप्तये || वरेण्यं कारयामास । स्वयंवरणमंडपम् ।।३।। ततो ज्ञातपराकूता । दूतास्तेन परःशताः ।। प्रत्याशं प्रेषिताः क्षोणि-नायकाहूतिहेतवे । ॥४॥ अहं तु देवपादानां । समीपे प्रहितो जवात् ।। तदद्यैव कृपां कृत्वा । तत्र पादौ च धार्यताम् ।।५।। इति से निशम्य विशामीशो हृष्टस्तेन दूतेन साकं सानीकश्चचाल, प्राप्तश्च पुरीपरिसरमंडनं वनं, आजग्मुरन्येऽपि सपरिकराः * क्षितीश्वराः । नरसुंदरेणापि कृतसत्कृतयः सर्वेऽप्यूर्वीपतयः स्थापिताः पृथक्पृथक् प्रासादे, संजाते च शुभेऽह्नि तामलिप्तीपरमेश्वरेणाहूता महीपुरुहूताः समेयरुः स्वयंवरं, निविष्टाश्च तत्र विडंबितेंद्रधनुःप्रपंचेषु रत्नमयमंचेषु । ततः सा बंधुमती कृतमंगलस्नाना विहितांऽगरागा परिहितनव्यभव्यवस्त्रा सर्वांगीणविभूषणा करकलितवरमाला के प्रश्नो. नरविमानारूढा मूर्थोपरि धार्यमाणछत्रा चामरवीज्यमाना बंदिजनजनितजयजयारवा पत्रलेखादिसखीयुता * सटीका र वाद्यमानचतुर्विधातोद्यमुखरितदिङ्मुखा किमियं गौरी ? किमियं श्रीः ? किं वेयं रतिः ? इति संदेहं राजसंदोहहृदये १०४॥ Jain Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy