SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ * भद्रा तदकाण्डचण्डदम्भोलिदण्डपातोपममाकर्ण्य सुतस्नेहसीधूमोहिता प्रावृषेण्यघनमालेव बाष्पांबुभरं क्षरन्ती यं * प्र.११ * कंचनाप्यध्वनि मुनिमालोक्य वत्स ! अरिहन्न ! अरिहन्न ! इति वारंवारं विलपन्ती हंहो नराः ! नार्यः ! क्वापि * मातृप्रबोधि* क्षुत्परीषहक्षामगात्रोऽरिहन्नो दृष्टः श्रुतो वा ? इति कं कं जनं कां कां स्त्रियं च नापृच्छत् ? तथापि सूनोः - तस्याऽरिहनस्य शुद्धिमनवाप्य विशिष्य स्नेहमदिरायत्ता सा वात्या विधूतपत्रालिरिव सर्वत्र भ्रमन्ती पतन्ती च हा वत्स ! ) गुरुपादमूला ऽऽगमन * गंगाजलस्वच्छ ! अरिहन्न ! व गतो मामनाथामेकाकिनी दुःखिनी जननीं मुक्त्वा ? तद्यच्छ तुष्टिपुष्टिकरं के व्रतमादाय स्वदर्शनम्, इति कं कं लोकं कां कां स्त्रियं च करुणार्द्रहृदं नाऽकरोत् ? एकदा तया महेभ्यकांतया सह * समाधिना तत्तादृग्भोगयोगमनुभवता वातायनस्थेनाऽरिहन्नेन शीर्णपर्णश्रेणिरिव समंततो रुदन्तीं मातरमालोक्य तत्कालोल्लस- मृत्युः * चैतन्याऽमृतनिरस्तस्मरानलेन तादृशीं मातृवत्सलतां स्मरता ततो द्रुतमेवाऽवतीर्य मातुः पदद्वंद्वमभिवंद्येत्यावादीत्* मातः ! पश्य स एवाह- मरिहन्नोऽतिपापधीः ।। यस्त्वामगाधदुःखाब्धि-मध्यमेवमपातयत् ।।१।। सापि तच्छब्दश्रवण-* पीयूषपानप्रीणित-सर्वेद्रिया सुतं दृष्ट्वा पृष्ट्वा यथावत्तत्स्वरूपं बुद्धा च तन्निस्तारायेदमवदत्- वत्स ! स्वच्छमते! * नैवं । प्रविधातुं तवोचितम् ।। पुनर्दीक्षा-मुपादत्स्व । भवाब्धिर्दुस्तरोऽन्यथा ।।।। अरिहन्नोऽप्यूचे-अंब व्रतमुपादातुं। * समर्थो न भवाम्यहम् ।। सर्वदैव यदस्यां हि । दुस्सहाः स्युः परीषहाः ।।१।। भद्राऽप्यभाणीत्- यद्येवं तर्हि हे के प्रश्नो. * वत्स | घोरेषु नरकादिषु ।। भवेषु भूरिशः कष्टं । छेदनादि सहिष्यसि ।।२।। अरिहन्नोऽपि जगौ-सवित्रि ! नाहं 4 सटीका र चारित्रं । चिरमाचरितुं क्षमः ।। गृहीत्वानशनं किंत्वाऽऽत्मानं साधयितास्म्यहम् ।।३।। भद्राऽप्यभाणीत्-वत्सवमपि ॥१०२॥ Education For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy