________________
***************************
कियति समये दत्तमुनौ सम्यग्व्रतपालनाद्दिवं गते स्वयमेवारिहन्नो भीष्मे ग्रीष्मे मध्याह्ने नखंपचायां भुवि भिक्षानिमित्तमुत्ततार । अदृष्टपूर्वगोचराऽध्वा च गृहाणि भ्राम्यन् सुदूरमगात् । अवाप तच्चेतईर्ष्ययेव ललाटंतपतां तपनः, उत्तेरुरापादतलं तदुत्तमांगात्प्रस्वेदबिंदवः, तदनु स दिग्भ्रांत इव भ्रमन् कस्यापि महेभ्यस्य सौधवातायनच्छायामाश्रित्य विधृतातिभार इव श्रमार्त्तः क्षणमेकमस्थात् । अत्रांतरे प्रोषितभर्तृका काचिदिभ्यकांता गवाक्षस्था तादृगवस्थमपि तमनगारं सुंदराकारं दृष्ट्वा प्रोद्भवद्विषयाभिलाषा दास्या समाहूय माकंदमरंदास्वादमाद्यत्कोकिलाकुलकलकलोपमया गिरा जगौ - हे महात्मन् परिभ्राम्यन् । प्रतिधाम किमीहसे || मुनिः स्माह - भद्रे ममायमायासो । भिक्षासंप्राप्तिहेतवे ।। १।। ततः सा मोदकानानीय मुनयेऽदात् । सोऽपि संपूर्णकामो यावज्जिगमिषुरजनि तावत्साऽवदत्-मुने ! मनोरमस्तावत्तव देहो विलोक्यते ।। अतस्त्वया किमित्येष । तपसा परिशोष्यते ||१|| मुनिरप्यूचे - कल्याणि ! तपसानेन । प्राणभाग्भिर्मनीषिता । नाकलोकादिसौख्यर्द्धि - राप्यते नात्र संशयः ||१|| साप्याहस्म-मुमुक्षो ! सौख्यलिप्सुश्चे- - तदा त्वं मयका समम् ॥ भोगाननुभव स्वैरं । पर्याप्तं तपसामुना || 9 || इत्यादिवाग्भिः तत्तादृक्कटाक्षविक्षेपेषुभिस्तस्यर्षेरभेद्यभेद्यमपि मनोलक्षम् । यतः - तपु जपु संजमु तामनर साधइंति रुताधिया । अंगिनव जई वामनयणबाणनारिहितणा । ततोऽरिहन्नः पुरा पराजितेनेवानंगेन स्वाशुगैराहतश्चरणविरक्तस्त-स्यामनुरक्तोऽभूत् । इतश्च यामयुग्मे व्यतीते तत्परीषहासहिष्णुतां विभावयन्तो यतयोऽद्यापि नायातोऽरिहन्न इति तद्गवेषणां पुरि बहिरपि चक्रुः, तथापि नापुस्तच्छुद्धिं यथागतं चाजग्मिवांसः । तन्मातापि
International
For Personal & Private Use Only
प्र. ११
अनंगेनाssहतश्चरणविर
क्तोऽरिहन्नः
प्रश्नो. सटीका
॥१०१॥
www.jainelibrary.org