SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ * यावत्स्वपुरं प्रति जिगमिषुरभूत्, तावदाऽऽकाशेऽकस्मात्पटुपटहभंभाभेरीझल्लरीप्रभृतिवादित्रनादे समुच्छलति सति * प्र.१० नानाविमानमालांतरालवर्तिविज्ञानरम्यविमाने भद्रासनासीनां सर्वांगीणभूषणकरप्रकरपराभूतदिगंधकारां कामप्यमरांगनां * श्रीकमलपुरं प्रति विमानेन दृष्ट्वा किमेतदिति वदन् राक्षसः करे गुरुतरं मुद्गरं कलयन्, कर्तिकादिप्रहरणव्यग्रविंशतिकरा कालिका, * गमनम् 7 डमड्डमायमानडमरुकः कापालिकोऽपि च समुत्तस्थुः । कुमारस्त्वसंभ्रांतमना यावदस्थात्तावद्देवा देव्यश्च श्रीहरि* वाहननृपनंदन ! मालतीदेवीकुक्षिशुक्तिमौक्तिक ! हे भीमकुमार ! त्वं जय जीव नंदेत्युच्चैःस्वरं भाषमाणाः समेत्य * * कमलाया यक्षिण्या आगमनमकथयन् । ततो विमानादवरुह्य विस्मेरमुखकमला कमला यक्षिणी क्षोणीपालबालमानम्य * निविष्टा सती भालतलयोजितांजलिरालपत्-कुमार ! मे तदा दत्वा । सम्यक्त्वं विंध्यभूभृतः ।। गुहाभ्यणे । * विभावर्यां । गुरून्नंतुमवस्थितः ।।१।। प्रगे तत्राहमयागां । वंदितुं सपरिच्छदा ।। तान् गुरून् त्वदवीक्षातो । जाता * च विमना मनाक् ॥२।। ततस्त्वामवधिज्ञाना-दत्रमित्रसमन्वितम् ।। स्नानं विदधतं ज्ञात्वा । चलिता कलिता मुदा * * ॥३।। मार्गे तु कार्यवैयग्या-जातकालविलंबया ॥ मया त्वमधुना पुण्य-योगाद् दृग्गोचरीकृतः ।।४।। इति * * यक्षिणीवचः श्रवणाऽनंतरमेव यक्ष इंद्रकविमानोपमं विमानं विकुळ नृपसुतमुवाच-प्रभो ! प्रसत्तिमासूत्र्य । * * विमानममुमारुह ।। यथाऽधुना वयं यामः । श्रीकमलपुरं पुरम् ।।१।। तत्रः समित्रो धात्रीपतिपुत्रः कनकरथमापृच्छ्य * प्रश्नो . * दानादिना प्रीणितं प्राणिगणं विधाय विमानमारुह्य च देवदेवीजनाश्रितः स्वपुरं प्रति प्रतस्थे । तत्र व्योम्नि * सटीका * विमानाऽऽरूढः कुमारः कैश्चिद्देवैः क्रियमाणां भक्तिमनुभवन्, कैश्चिद्देवैर्वाद्यमानवर्यतूर्यध्वनिं शृण्वन्, कैश्चिद्दे- * ॥९॥ Ja Educatie For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy