SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ * करिणो रूपमाधाय । तत्परित्राणकर्मणे ।।३।। त्वामत्र मित्रसहितं । परोपकृतिकर्मठम् ।। समानीय स्वयं स्वीयं । * प्र.१० * स्थानं स्वस्थमना ययौ ।।४।। त्रिभिर्विशेषकम् ।। ततस्त्वया सर्वगिला-स्वं प्रपौत्रं प्रमोचितम् ।। मत्वा स मुदितो के अर्हद्धर्म चिंतामणिदंती । भूयोऽस्मान्नंतुमागमत् ।।५।। अधुना पुनरेष त्वां । भवत्तातपुरं प्रति ।। नेतुं वांछति सर्वस्या-प्यभीष्टो ह्युप प्राप्तिः र कारकृत् ।।६।। ततः स हस्ती हस्तिरूपमपहाय सर्वांगीणाऽऽभरणो यक्षभावं प्रपद्य च नतिपूर्वमुवाच-प्रभो ! र * यत्कितवेनेव । मया सद्गुरुपार्श्वतः ।। जिनधर्ममहारत्न-मर्जितं दोषवर्जितम् ।।१।। तत्कुदृग्जनसंपर्क-वशतः के * परिहारितम् ।। अतस्तद्विकलो मृत्वा । यक्षः स्वल्पर्धिकोऽभवम् ।।२।। तदेतद्यपि जैनेंद्र-धर्मरत्नं प्रयच्छ मे ।। यथा भवामि न पुन-रीदृशः कचनापि हि ।।३।। तदाकर्ण्य सर्वंगिलरक्षो नृपो लोकश्च प्रांजलिर्व्यजिज्ञपत्-पूज्या । अस्माकमप्यर्ह-द्धर्मरत्नं वितीर्यताम् ।। यथा भवामः सुखिता । दुःखिता न कदापि हि ।।१।। अहो शुभवतां भवतां मनोरथ इति तानुपबृंह्य भगवानर्हद्धर्मचिंतामणिं तेभ्योऽर्पयत् । भूपभूरपि कापालिकसंगजंबालमलिनं जिनधर्मांशुकमालोचनादानजलेन निर्मलीकृत्य यतिपतिमभिनत्य मित्रयक्षरक्षःक्ष्मापपौरपरीतः कनकरथप्रासाद माससाद । मोहरिपुमुनींद्रोऽप्यन्यत्र विजहार । ततः कनकरथपृथिवींदुः कुमारमासने निवेश्य प्रांजलिरालपत्* कुमार ! त्वत्समं नान्यत् । पुरत्नं येन तादृशात् ।। संकटाद्रक्षितोऽहं य-महांतो ह्युपकारिणः ।।१।। उक्तं के प्रश्नो. च-कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजाना-मभ्यर्थ्यते नव जलमुचः केन वा वृष्टिहेतोः ।। छायार्थं वा पथि * सटीका र विटपिनामंजलिः केन बद्धः । प्रायेणैते परहितविधौ साधवो बद्धकक्षाः ।।१।। तत्प्रसद्याशु मद्राज्य-स्वीकारकरणेन ॥९३॥ E ducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy