SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्र.१० चारणश्रमणदर्शनम् * राज्ञा दिव्यं यथोचितम् ।। मार्गयन्नपि तैलाक्त-शणवेष्टनपूर्वकम् ।।७।। अकामनिर्जरायोगात् । पापकर्माप्यहं * * ततः । मृत्वा सर्वंगिलो नाम । समभूवं निशाचरः ।।८।। स्मृत्वा वैरमिहागत्य । तिरोधाय च पूर्जनम् ।। मया * अ नृसिंहरूपेण | गृहीतोऽयं महीपतिः ।।९।। तदानीं भवताऽनन्य-सामान्यकरुणावता ।। अमुं बलान्मोचयता । * मदीयं रंजितं मनः ।।१०।। ततो वत्सेह तुष्टेनाऽ-दृष्टेनैव मया तव ।। स्वागतादिविधिः शाल-भंजिकादंभतः कृतः । * ॥११।। इति वचोऽनंतरमेव स राक्षसः कुमारपुरः पुरजनं प्रकटयामास । भूपभूरपि स्मेरसरोजसदृशा दृशा पश्यन् * * यावत्प्रमुदितोऽजनि तावद्व्योमन्यागच्छन्तं भक्तिभरनिर्भरसुरासुरादिस्तूयमानं मोहरिपुनामानं चारणश्रमणम-* पश्यत् । सोऽपि भगवान् पूर्वं कुमारस्थापिताऽमात्यसुतस्थाने सुरनिर्मितहेमकमलमलमकरोत् । ततः क्षमापभूः । सर्वगिलमूचे-निशाचरवराऽत्रास्ति । समायातो गुरुर्मम ।। अत एतत्क्रमाऽम्भोज-युग्मं गत्वा प्रणम्यते ।।१।।* एवमस्त्विति रक्षसोक्ते कुमारो बुद्धिमकरगृहसुहृत्कनकरथनृपसर्वंगिलराक्षसपौरपरीतः समेत्य गुरुपादानभिवंद्य च * यथोचितस्थानमुपाविशत् । भगवानपि धर्माशिषा कुमारादीनभिनन्द्येत्युपदिदेश-भो भो विवेकिनो लोका । असारे में भवसागरे ।। मज्जयत्यखिलान् जीवान् । क्रोधो लोहतरंडवत् ।।१।। सोऽपि संज्वलनप्रत्या-ख्यानकाभ्यां तथा * पुनः । अप्रत्याख्यानकानंता-नुबंधिभ्यां चतुर्विधः ॥२।। तत्र संज्वलनो नाम । क्रोधो मासार्धकावधिः ।। प्रत्याख्यानाभिधः क्रोधो । मासचतुष्टयावधिः ।।३।। अप्रत्याख्यानको नाम । क्रोधः संवत्सरावधिः ।। तथानंतानुबंध्याख्यः । क्रोधो जन्मावधिः स्मृतः ।।४।। आद्यो जिनत्ववित्रासी । द्वितीयः श्रमणत्वहा ।। प्रश्नो . सटीका ॥९१॥ J u cation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy