SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीषाण्डवचरित्रम् । सर्गः १२ || ॥२०६ ॥ 88 देवि !, तीरे लवणनीरधेः । अस्ति द्वारवती नाम, पुरी सुरविनिर्मिता ॥ ३९ ॥ ऊर्मिषु स्खलनादुच्चै रुच्छलत्सु बलीहकाः । वप्रासीनाः सुखं यस्यां गृह्णते सैन्धेवीरपः ॥ ४० ॥ यस्यामुसुङ्गसौवर्ण-निकेतवलभीगतः । प्रत्युत द्योतते विद्युदुत्सङ्गस्थ इवाम्बुदः ॥४१॥ यस्यां हिमकरो हैम-वेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्नि-मयो रात्रौ वियोगिभिः ॥ ४२ ॥ यस्यां यदुकुमाराणां, खुरलीखेदविषः । पिबन्ति मरुतोऽम्भोधि- वेलावनविहारिणः || ४३ ।। रत्नराशिमुपादातु-मित्राद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः, सेवाहेवाकवानभूत् ॥ ४४ ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । खर्चीकृतसुपर्वेश- स्फीतगर्वोऽस्ति भूपतिः || ४५ || तस्यास्त्यवरजो दिव्य - मूर्तिरानकदुन्दुभिः । यद्गुणाः खेचरीवर्ग - जागरा पर्वशर्वरी ॥ ४६ ॥ तस्यानेकतनूजस्या- प्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः, सूर्याचन्द्रमसाविव ॥ ४७ ॥ तयोराद्यो जगत्येक -बली बल इति श्रुतः । नित्यशल्यायितं यस्य, दोर्दण्डैर्हृदि विद्विषाम् ॥ ४८ ॥ द्वैतीयीकः पुनवीर - भोगीभुजवैभवः । कृष्ण इत्युष्णधाम्नोऽपि यन्महो महिमापदम् ॥ ४९ ॥ यस्य गोपाङ्गनावार - परीवारविराजिनः । कालिन्दीतीरवानीर-शाखिनः केलिसाक्षिणः ॥ ५० ॥ तथा केश्यादिकक्षोद-रसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्त - द्वीरग्रासैर्न तृप्यति ॥ ५१ ॥ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकांचक्रिरे गोप्यः, कटाक्षमृगनाभिभिः ॥ ५२ ॥ कम्पिताशेषभूमीभृ-नृत्यैन् शक्तिप्रियकरः । कंसकल्पान्तमातेने, भैरवो यस्य विक्रमः ॥ ५३ ॥ कर्तुं निश्चिन्तमात्मानं, समुद्रविजयो नृपः । यं चकार चिरं द्वार - वतीराज्याधिदैवतम् ॥ ५४ ॥ त एते यादवा यस्यां १ मेघाः । २ समुद्रस्य जलानि । ३ यद्गुणाः पूर्णिमारात्रिरूपाः सन्ति । ४ ' नृत्यच्छक्ति ० ' प्रत्यन्तर० । Jain Education International For Personal & Private Use Only जरासन्ध दूतेन समुद्रविज यसभायां कथितो वृत्तान्तः ।! ॥२०६॥ www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy