SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 85 Jain Education International इति सर्वतः पुरनिवासिजनः, कटकप्रयाणरभसाऽऽकुलितः । निजकर्म तत्तदचिरं रचयन्नभवद्भृशं प्रमदपल्लवितः ॥ ३९२ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहित-संजयविष्णुदूत्यवर्णनो नामैकादशः सर्गः ॥ ११ ॥ अथ द्वादशः सर्गः । अथान्येद्युर्जरासन्ध - दूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपि - धारको द्वारकां पुरीम् ।। १ ।। स शालस्खलितालोल– तुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं, सागरे परिखायिते ॥ २ ॥ ऊर्ध्यानीतस्फुटच्छुक्ति-मुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चै - चने चरितार्थयन् || ३ || वेलावननभस्वद्भि-रसौ वीतपथभ्रमः । उल्लसद्विस्मयावेश - चित्रशः प्राविशत् पुरीम् || ४ || (त्रिभिर्विशेषकम् ) तां विलोक्य स निःशेष - हिरण्मयनिकेतनाम् । तृणाय मतिमान् मेने, पुरीं पौरन्दरीमपि ॥ ५ ॥ शुशोच विपणौ वीक्ष्य, रत्नकूटान् स कोटिशः । मुष्टः कष्टमसौ दुष्टै रिति रत्नाकरं मुहुः || ६ || अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमि - महानेमि-सीरि- शौरिमुखैरपि ॥ ७ ॥ नमद्भुपालमौलिस्र-ग्मरन्दतुरभिक्रमम् । वारना १ शाल :- प्राकारः । २ मरन्दः - मकरन्दः । For Personal & Private Use Only jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy