SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education 79 रीर्तिताम् ॥ ३०५ ॥ तन्मनागपि मा कृष्ण ! क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं, हिमांशोरग्निवृष्टयः ? ।। ३०६ ।। आसतां पाण्डवास्ताव-वयाऽप्येकाकिना रणे । अभियुक्ताः क्व नामैते, सन्ति दुर्योधनादयः १ ॥ ३०७ ॥ पुरः केसरिणः केहि दुर्धरा अपि सिन्धुराः १ । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः १ ॥ ३०८ ॥ त्वया पाणौ कृता पूर्व, जयश्रीः परिभोगभाक् । कथं गोविन्द ! निर्व्रडैः पाण्डवैः परिणेष्यते ॥ ३०९ ॥ विनाऽपि त्वां विजेष्यन्ति, कौन्तेयाः समिति द्विषः । येषां तौ सहयोद्धारौ, धर्मन्यायौ तरखिनौ ॥ ३१० ॥ पापीयांसस्तु लप्स्यन्ते, गान्धारेयाः क्षयं स्वयम् । जीवितव्यं कियन्नाम, गुर्वादेशविलङ्घिनाम् १ || ३११ ।। त्वं तु खजनदायाद - घातपातकसंभवाम् । अकीर्ति मा ग्रहीतां, महतां हि यशः प्रियम् ।। ३१२ ॥ तदाहूतोऽपि कौन्तेयै-रावासीर्मास्म संयति । त एव हन्त युध्यन्तां, येषां वैरं परस्परम् ॥ ३१३ ।। वयं मान्याच कार्येऽस्मिन् वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ।। ३१४ ॥ इत्येषां विनयार्द्राभि-भारतीभिर्मृदूकृतः । कोपप्रशान्तिकान्तश्री - र्जगाद गरुडध्वजः ॥ ३१५ ॥ वर्षीयांसो भृशं यूयं, माननीय गिरो मम । मां वीक्ष्य विग्रहः किं तु, प्रस्तुतः पाण्डवैरपि ॥ ३१६ ।। तदेषां सांयुगीनानां संयुगोत्सङ्गसङ्गिनाम् । भाव्यमेव मया सद्भिः, प्रतिपन्नं हि नान्यथा ॥ ३१७ ।। किं तु संग्राममुत्तीर्णो, न ग्रहीष्ये धनुः स्वयम् । सारथ्येनैव पार्थस्य, सहायो भवितास्म्यहम् || ३१८ ॥ एतावताऽस्तु यौष्माक - वचसामनतिक्रमः । अमेयमहिमानो हि, मान्या एव १ ( रीतिर्दग्धस्वर्णादिमलम् ) रीतिः - पित्तलनामकधातुः इत्यर्थः साधुः । २ ' आः कदापि प्रतिद्वय० । ३ यद्वे । For Personal & Private Use Only ional www.jainvelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy