________________
78
श्रीपाण्डव चरित्रम् ॥ मर्गः११॥ ॥२०१॥
तदाऽऽयान्तु कुरुक्षेत्रे, क्षिप्रं साकमपि त्वया ॥२९०॥ इत्युक्वा सह कर्णेन, निर्गत्य सदनारहिः। स निश्चित्य हरेर्वन्ध-मेत्य दुर्योधनेन भूयोऽप्युपाविशत् ।।२९१॥ तं कथंचित् परिज्ञाय, सात्यकिर्मत्रमेतयोः। संज्ञया ज्ञापयामास, कंसंविधंसकारिणः ।।२९२॥ कृतः कृष्णततस्ताम्रीभवद्भाल-कपोलनयनोत्पलः । सस्तेदपुलकः क्रोधा-जगादेति गदाग्रजः ॥ २९३ ।। उपकारिणमप्युच्चै-पकुर्वन्तिस्य तिरदुधियः । दन्दहीति न होतारं, किं हुतोऽपि हुताशनः? || २९४ ॥ एतज्जीवातवेऽप्युच्चै-बहुधा मम धावतः। बन्धमिच्छति दुर्मेधा-स्तत्कोऽयं कुपिते मयि ? ॥ २९५ ॥ मन्दोऽपि न मृगारातिः, शृगालैः परिभूयते । ग्रस्यते न ग्रहोदयोतैः, क्षीण- गांगेयास्यापि विधोमहः ॥ २९६ ॥ कृपयैव तु नेदानी-मेव व्यापादयाम्यमुम् । भवन्तु पाण्डवेयानां, सावकाशाः क्रुधोऽपि च । दिना सा॥ २९७ ।। कुरुक्षेत्रे त्वसौ क्षत्र-लक्षगुप्तोऽपि दौकताम् । सर्वेपामपि तत्रैव, ज्ञास्यते भुजवैभवम् ॥ २९८ ॥ एते तु वयमा-IIन्त्वनं च ।। याता, एव संप्रति सत्वरम् । ऊर्जस्विभुजवीर्याणा-माहवोऽपि महोत्सवः ।। २९९ ॥
इत्युक्त्वा सहसोत्थाय, क्रोधात्ताम्रतनुद्युतिः । ज्वलन्निव वृहद्भानु-निर्ययौ सहसा हरिः ॥ ३००॥ तत्प्रकोपाऽऽकुलीभृत-स्वान्ताः सान्त्वयितुं ततः । गाङ्गेय-धृतराष्ट्राद्याः, पारिपद्यास्तमन्वयुः ॥ ३०१ ॥ ततः करे समालम्ब्य, गौरवोत्तरया गिरा। ते कामं चकितात्मानो, मञ्जुकेशिनमूचिरे ।। ३०२ ॥ महात्मानो न कुप्यन्ति, खेदिता अपि दुर्मदैः। तुषारतरधारो हि, तडित्ततोऽपि तोयदः ॥ ३०३ ॥ न ताम्यन्ति महीयांसो, दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं, फेरण्डरवताण्डवैः ॥ ३०४ ॥ सन्तो विकृतिमेष्यन्ति, चेत् परैः परितापिताः । काञ्चनं दहन क्लिष्टं, तद्गमिष्यति १ कृष्णस्य । २ कृष्णः । ३ ‘म्यहम्' इति प्रतित्रय | ४ सुन्दरकेशवन्तं-कृष्णम् ।
॥२०१॥
Jain Educ
a
tional
For Personal & Private Use Only
aanadainelibrary.org