SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पाण्डवेभ्यो भुवः खण्ड-मपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति, तव प्राणैः सहाखिलाम् ॥ २७६ ॥ पार्थानुन्मथ्य साम्राज्यं, त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः, काः श्रियः स्वजनैर्विना ? ॥ २७७॥ रणाङ्गणे च ते नूनं, विपत्स्यन्ते न केवलाः। तवापि गात्रमात्रेण, यदि स्यादवशेषता ॥ २७८॥ तदारब्धकुलोच्छेदः, कोऽयं शौण्डीरिमा तव । किमेतच तुलाक्षिप्त-प्राभवं बुद्धिवैभवम् ? ।। २७९ ॥ यतो द्वेधाऽप्यसौ वेधा, धर्मभूधर्मकर्मणि । आतङ्ककृद्गदोऽरीणां, द्वेधाऽपि पवनोद्भवः ॥२८०॥ बीभत्सुरतिबीभत्स-कर्मकृद्वैरिदारणे । यमौ दोबलदुःप्रेक्ष्य-विपक्षमा पेटलीयमौ ।। २८१ ॥ श्रेयस्करस्तदेतैस्तैः, संधिरेव पृथासुतैः। ईदृशा हि क लभ्यन्ते, सहायाः स्वस्य बान्धवाः ।। २८२ ।।। विमार्य तदपमारं, वितर्योदर्कमात्मनः । पञ्च प्रामानिमान् पाण्डु-सुतेभ्यो दातुमर्हसि !! २८३ ।। कुशस्थलं वृषस्थलं, माकन्दी वारणावतम् । चतुरोवरजेभ्योऽमृन्, किंचित्त्वाद्याय पश्चमम् ।। २८४ ॥ (युग्मम् ) इयताऽपि त्वया संधिं, ते विधास्यन्ति मद्गिरा । सन्तोऽल्पेनापि तुष्यन्ति, वीक्षमाणाः कुलक्षयम् ॥२८५।। अन्यथा नीरराशीना-मिव प्लावयतां जगत् ।। त्वदले क इत्रास्ते य-स्तेषां सेतुर्भविष्यति ? ॥ २८६ ।। । व्याहृत्येति हृषीकेशे, स्थिते दुःशासनाग्रजः । ऊचे चम्पाधिपालोक-साचिसंचारिलोचनः ॥ २८७ ।। एतावदपि गोविन्द ! मन्यसे नैव किं बहु ? । यदद्याप्येप मुश्चामि, प्राणतः पाण्डुनन्दनान् ।।२८८ ॥ इदानीमपि यद्येते, बार्ता ग्रामस्य दोमदात् । एकस्यापि करिष्यन्ति, न भविष्यन्ति तद्भुवम् ॥ २८९ ॥ स्वभुजौर्जित्यपर्यन्तं, तेऽथ कामन्ति वीक्षितुम् । १ कुन्तीपुत्रान् । २ 'कुलाक्षिप्त -प्रभावं' इतिप्रत्य० । ३ पटली-समूहः, तस्यां यमराजसदशौ । IMAananama in Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy