SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कृष्णस्य दौत्येन पाण्डवपरित्रम् ॥ पर्गः११॥ ॥२०॥ हस्तिनापुरे गमनम् ।। मतिस्नेहात् , कुलप्रलयकातरः। संधानविपयं किंचि-त्तपःसुतमवोचत ।। २६२ ॥ संधिसत्यपि कौन्तेये, भृपाले बलशालिभिः । भ्रातृभिर्भीम-बीभत्सु-प्रमुखेनैव संदधे ॥ २६३ ॥ ततोऽस्माकमनावेद्य, विग्रहे जातनिश्चयः । द्वारवत्याः | समेयाय, संजयो गजसाह्वयम् ॥ २६४ ॥ तं समस्तमुदन्तं मे, धर्मसूनुरचीकथत् । हृदयस्य हि सर्वेषा-मनाख्येयं न किंचन ।। २६५ ॥ ततोऽहं कुरुभूपाल-कुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान् , दन्याय स्वयमागमम् ।। २६६ ॥ यूयं किंचित्तदाप्तत्वं, संभावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं, मनस्याधातुमर्हथ ॥ २६७ ॥ आप्तवाचोऽपि हि प्रायो, दध्माते जडात्मनि । हन्त मन्जन्ति निर्नाम, पर्वता इव सागरे ।। २६८ ॥ प्रत्युत प्रज्वलत्याप्तो-पदेशैर्दोमदोद्धतः । दीप्यते नितरामग्नि-स्तैलभूरनलोऽम्बुभिः (१)॥ २६९ ॥ अन्धत्वं नेत्रसद्भावे, वाधियं श्रुतिपाटवे । मृकत्वं वाक्प्रवृत्तौ च, श्रीरियं महतामपि ॥ २७० ॥ दुर्गेहिनीव पुंसः श्री-र्चेश्मनीव न मानसे । दत्ते हितोपदेशानां, स्वजनानामिवाश्रयम् ॥ २७१ ॥ लक्ष्मीश्च भुजदर्पश्च, द्वयमेतदुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च, दुःसही खलु संहतौ ॥ २७२ ॥ सुजनोक्तिः कथंकार-महंकारमयं मनः। विशेत कुलीनकन्येव, निवासं विटसंकटम् ? ॥ २७३ ।। संवृत्य तद्भजागर्व, लक्ष्मीमदमुदस्य च । शृणोति चेत्तदेतहिं, किंचिद्वच्मि सुयोधनम् ॥ २७४ ॥ स्वच्छन्दं बद गोविन्दे-त्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह, विहङ्गेश्वरवाहनः ॥ २७५ ॥ १ नामरहितं यथा स्यात्तथा । २ (' अनिलाम्बुभिः' इति भवेत् ) 'मग्नितैलभूरनलोऽम्बुभिः' इत्येकप्रतिपाठः सम्यग् भाति । ॥२०॥ JAREDUCER S trona For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy