________________
73
अङ्गीकृतः प्रदीपौधे-दर्शोऽपि हि महोत्सवः ।। २१८ ॥ किं च यजीयते जातु, कातरैरप्यकातरः। तदैववैभवं किंचि-न नाम | भटिमव्ययः ।। २१९ ।। तन्मा भैष्टमदीपिष्ट, विष्टपग्रासलालसः। मद्विक्रमकृशानुश्चे-त्तद्दग्धा एव पाण्डवाः ॥ २२० ॥
एतैर्जराप्रलापैस्तु, मा मा मां भयविक्लवैः । पुनः पुनर्मनःक्लान्ति-हेतुभिर्व्यथयिष्यथः ॥ २२१ ॥ तस्येत्युक्तिमुपश्रुत्य, श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्र-वीर्यो स्वस्थानमीयतुः ॥ २२२ ।। ____ अथ दायादसंदोह-क्षयाशङ्काविरक्तधीः । संसारसुखसंभार-भङ्गुरो विदुरोऽभवत् ॥ २२३ ॥ स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक् संपदःप्रभुत्वं धिक्, धिक् च वैषयिकं सुखम् ।। २२४ ॥ यत्कृते पितरं पुत्रः, पिता पुत्रमपि क्वचित् । सुहृच्च सुहृदं बन्धु-र्बान्धवं च जिघांसति ॥ २२५ ।। धिक् पापप्रभवाः पाप-प्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्, फलं प्रसुवते लताः ।।२२६॥श्रीमातङ्गीपरीरम्भ-लम्भिताद्भतकल्मषाः।न धर्ममग्रजन्मानं, स्प्रष्टुमप्यधिकारिणः ॥ २२७ ।। कथं नु विषयासङ्ग-पङ्कपङ्किलमूर्तयः । सुभगंभावुकीभृय, भजेयुर्मुक्तियोषितम् ? ॥२२८॥ एतानधर्मचाण्डालसंश्लेषमलिनान् कुरून् । न खलु द्रष्टुमीशिष्ये, म्रियमाणान् रणाङ्गणे ॥ २२९ ॥ तत्तदीयमदृष्ट्वैव, संहारं समराजिरे । मम प्रव्रजितुं संप्र-त्युत्कर्ष दधते धियः ॥ २३० ॥
एवमालोचयन् सोऽय-मश्रौषीत् कस्यचिन्मुखात् । यद्द्याने मुनिर्ज्ञानी, विश्वकीर्तिरुपागमत् ॥ २३१ ।। तत्रोपेत्य ततो हर्षा-दुन्मिपत्पुलकाङ्करः । स तं मुनीन्द्रमानम्य, तत्पुरस्तादुपाविशत् ॥ २३२ ॥ अथ संसारसंताप-निर्वापणसुधोप
१ सुभटव्ययः (?)।
For Personal Private Use Only
w
inelibrary.org