________________
श्रीपाण्डवचरित्रम् ॥
सर्गः१॥
॥१९८॥
पूतं तु कौन्तेय-मेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः, सरः सरसिजोवलम् ॥ २०५॥ सत्यमेव तदीयं ते |
धृतराष्ट्र पुराऽपि हि महीमदात् । को नामापरथा तस्मा-दिमामाच्छेत्तुमीश्वरः १ ॥ २०६ ॥ दोर्दण्डान् पाण्डवेयानां, संनिधाया-15 संजयाभ्यां धिमानसम् । आत्मनः सत्यमत्यन्त-मुत्तम्भयितुमर्हसि ॥ २०७॥ यद्वा राधेय-गाङ्गेय-द्रोणादीनां धनुष्मताम् । भुजा- धार्तरानालोक्य निर्भीको, भुवं नार्पयसि ध्रुवम् ॥ २०८ ॥ अमीषामपि गन्धर्व-राज-गोग्रहविग्रहे । प्रत्यक्षीकृतमेवास्ति, भुजयोरू
प्दूस्य कृत र्जितं त्वया ॥२०९॥ निदेशाद्यद्यजातारे गमिष्यद्धनंजयः। त्वां गन्धर्वेन्द्रपारीन्द्रा , कस्ततोऽमोचयिष्यत ? ॥२१०॥
| उपदेशः॥ गोग्रहे स्मरसि प्राण-निग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वस्त्र-मूर्त्या कीति हरिष्यति ॥ २११ ॥ प्रेयस्यः सर्वदा यस्य, धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभि-लक्ष्मीभिर्नास्य संगमः ॥ २१२ ॥ यस्य धर्मोऽयमेकोऽपि, सैन्ये संनद्यते मुदा । कक्षवत्प्रतिपक्षौघ, तस्य संहरतेऽग्निवत् ।। २१३ ॥ वत्स ! मत्सरमुत्सृज्य, तदर्पय महीमिमाम् । धर्म-जीवितकीर्तीनां, मा स्म भूः क्षयवासरः॥ २१४ ॥
इत्याकर्ण्य तयोर्वाच-मुच्चैरुत्प्रोसपांसुरः। दोर्दपदर्शितावज्ञ-मभ्यधाद्धतराष्ट्रभूः ॥ २१५॥ तातौ ! धर्ममपि क्षात्रं, न जानीथः कथं युवाम् ? । काश्यपी करमारूढां, क्षत्रियः क इवापयेत् ।। २१६ ॥ प्रत्युतार्पयतः काम, दो कीर्तिः कलुपीभवेत् । कराक्रान्तकरित्यागे, कुण्ठं कण्ठीरवोर्जितम् ।। २१७ ।। न्यायोपि स खलु न्यायो, यस्तेजस्विभिराहतः ।
१ मनसि । २ पारीन्द्रः-सिंहः। ३ वस्त्रमिषेणेत्यर्थः । ४ तृणवत् । ५ उपहाससहितः। ६ सिंहशौर्यम् । ७ 'अन्यायोऽपि खलु न्यायः' इति गद्यपाण्डवचरितानुसारेणोचितं प्रतिभाति ) एकस्यां प्रतौ अयं पाठोऽस्ति ।।
॥१९८॥
॥१९॥
Jain Educati
o nal
For Personal & Private Use Only
b
ore