________________
॥ १८९ ॥ राजस्तल्लोभमुन्मुच्य, धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं, विवेकमवलम्ब्य च ॥ १९० ॥ आत्मजन्मानमेतस्मा-निवर्तय कदाग्रहात् । ग्रासीभूयं भवन्मृत्यो-स्वायस्व सकलं कुलम् ॥ १९१ ।। (युग्मम् )
शुद्धधीधृतराष्ट्रोऽथ, जगाद विदुरं प्रति । त्वां विना वक्ति को नाम, तथ्यवाक्पथ्यमीदृशम् ? ॥ १९२ ॥ इयमा. पाततिक्ताऽपि, गीस्तवाऽऽयतिसुन्दरा । मुखद्वेष्याऽपि किं नैव, गुडूची संनिपातभित् ? ॥१९३॥ यो बन्धूनामुपेक्षेत, कुव्यापारदवानलम् । पश्य तस्यापि किं न स्या-त्तदोषप्लोषवैशसम् ? ॥ १९४ ।। मृत्युमूलं ह्यनुच्छिन्दन , कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के, सुधाधामाऽप्यजायत ।। १९५ ।। परं मया दुरात्माऽयं, बोधितोऽपि सहस्रधा । पिशाचकीव. दुर्दैवाद्वध्यते न कथंचन ॥१९६ ॥ द्वावप्यावां तमभ्येत्य, बोधयावः पुनस्ततः । कथंचिद्यदि नामास्मा-दपस्मारान्निवर्तते ॥१९७॥
इत्यालोच्याथ तौ गत्वा, बद्धप्रणयमूचतुः। दुर्निरोधस्फुरत्क्रोध-सुदुर्बोधं सुयोधनम् ।। १९८ ॥ वत्स ! वात्सल्यसौत्सुक्य-मस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं, नियुंक्ते नौ पुनः पुनः ॥ १९९ ॥ निष्ठां वचःप्रतिष्ठव, प्रापयेत् पुरुषव्रतम् । क्षमेव गुणसंभारं, राकेव मृगलाञ्छनम् ॥ २०॥ वाचि भ्रष्टप्रतिष्ठस्तु, हीयते पुरुषव्रतात् । पुरुषव्रतशून्याऽऽत्मा, श्वसनपि शवायते ॥ २०१ ॥ शवायमानः क्रमश-स्त्यज्यते स्वजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् ।। २०२ ॥ मा कृथास्तद्वचोलोपं, पुरुषव्रतहारिणम् । असत्यवचसः सत्यं, स्थानवो न श्रियोऽपि ते ॥ २०३ ॥ यान्त्यस्ताश्चोत्पथायाताः, सपुत्र-पशु-बान्धवम् । भवन्तमपि नेष्यन्ते, तटग्राममिवापगाः॥२०४ ॥ सत्य
१ मृतकमिवाचरति ।
JainEducational
For Personal & Private Use Only
inlibrary.org