________________
श्रीपाण्डवः चरित्रम् ॥ सर्गः११॥
संजयेन धृतराष्ट्रस्य कृत उपदेशः॥
॥१९७॥
अपाकृतनयं मोहा-न धर्मोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त, बीताम्भोजवनं वनम् ॥ १७४ ॥ दुनयध्वस्तधर्मस्य, श्रियो भङ्गुरसंगमाः । व्योम्नि पाथोदपीतेन्दौ, कौमुदी कियदीक्ष्यते ? ॥ १७५ ॥ भोग्याः श्रियो न साधूना-मधर्मशवली- कृताः। सेव्याः किं नाम हंसाना-मापः प्रावृालाविलाः ? ॥ १७६ ॥ श्रियोऽप्यधर्मसंपृक्ताः, कस्य नाम न मृत्यवे ? | हारहरापि किंपाक-संपर्कान्न हिनस्ति किम् ? ॥१७७॥ नित्यमारब्धधर्मस्य, नेदीयस्यस्तु संपदः। करारोपितदीपस्य, न प्रभा हि दवीयसी ॥ १७८ ॥ धर्मकर्मान्तिकीभूय, सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मी-वल्लिरुल्लासिपल्लवा ॥ १७९ ॥ नासीरे यस्य धर्मोऽयं, संवर्मयति संगरे । तस्यार्पयति केशेषु, समाकृष्य जयश्रियम् ।। १८० ॥ धर्मकल्पद्रुमस्यैते, पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः, फलानि सुखसंपदः॥१८१ ॥ तदा वैरिपराभूति-यामिनी क्षयगामिनी । जायतेऽसौ यदा धर्म-धर्मद्युतिरुदित्वरः ।। १८२ ।। अन्तिके यस्य जागर्ति, धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरा-स्तस्य व्यसनदस्यवः ॥१८३ ॥ यस्य धर्मोऽस्ति सत्कर्म-संधिकृत्पारिपाश्चिकः । स निर्वहणमभ्येति, विरोधिवधनाटके ।। १८४ ॥ स च धर्मो न लुब्धानां, सेाणामिव सौहृदम् । महान् सहानवस्थान-विरोधो धर्मलोभयोः॥१८५॥ नैव लोभपरीरम्भ-शालिनो धर्मसंगमः । कुतस्त्यः शौचसंपर्कः, सरैमासुतसङ्गिनः॥१८६ ॥ न्यायशैलपविलाभो, लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुलोभो, लोभः कीर्त्यब्जिनीविधुः ॥ १८७ ॥ लोभेन भ्रश्यति न्याया-दन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्या-दश्रीकस्य न कीर्तयः ॥ १८८ ॥ मुश्चेन्महान् वृथा लोभ-मलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी, धार्मिकं वृणुते जयः
१ कमलजलाभ्यां रहितम् । २ अतिसमीपस्थाः । ३ अग्रसैन्ये । ४ श्वानसङ्गिनः ।
॥१९७॥
For Personal & Private Use Only
hinelibrary.org