SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ गीयते । भुज्यते भूः पुरस्तेषां, बान्धवैरपि यदलात् ॥ १३१ ।। अकीर्तिर्भुजविस्फूर्ति-मतां बन्धुवधोद्यमः । भृभोगस्तु प्रसह्याय-मकीर्तेरपि मञ्जरी ॥ १३२ ॥ शमः प्रसाधनं पुंसां, यावन्नारिपराभवः । पराभूतौ पुनः क्रान्त-वैरिचक्रपराभवः ॥१३३ ।। तन मे बान्धवान् हन्तुं, काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तु-मेवमेव च नेच्छति ॥ १३४ ॥ त्यजामि चेत् प्रशान्तत्वात् , कथंचन महीमहम् । अमी त्ववार्यशौण्डीय-मन्दिरं न सहोदराः ॥१३५ ॥ तद्विचिन्त्य तदादेश्य, यदेवं सति युज्यते । इति मे वृद्धतातस्य, नतिपूर्व निवेदयेः ॥ १३६ ॥ ___जगाद नन्दनस्तार-निस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि, न तैः संधिं विदध्महे ॥ १३७ ॥ पश्यतां चिरमसाक-मायातोऽयं रणोत्सवः । अत्र वीक्षिष्यते वैरि-कबन्धशतताण्डवम् ॥ १३८ । ऊरं दौर्योधनी भित्त्वा, छित्त्वा दौःशासनीं भुजाम् । भविष्यामि ध्रुवं पारं-गमः संगरसागरे ॥ १३९ ॥ जिष्णुरप्युजगावेत-यजामः समरं न हि । तृप्यन्त्यन्यत्र नानास-पानश्रद्धाः खगाः क मे ? ॥ १४० ।। जल्पतः स्म यमौ संधि-यदि स्यात्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थली वीक्षा-महे कौटिल्यपाटवम् १ ॥ १४१॥ एवमुद्गीर्य संग्राम-रङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पष्ट-खेदोऽगानागंसाह्वयम् ।। १४२॥ तत्र वैचित्रवीर्यस्य, क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य, व्याजहार गिरं रहः॥१४३ ॥ विना विश्वंभरादानं, संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः, संधिसन्ते न ते पुनः ॥१४४ ॥ पाचालीचिकुराकृष्टि-प्रतीकारकरालिताः। यौष्माकीणैः १ शराः । २ हस्तिनापुरम् । Jain Educationa la For Personal & Private Use Only helibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy