________________
65
वीक्षितुं समरोत्सङ्ग-रङ्गमुद्यच्छते स यत् ॥१०॥ आत्मनश्च रिपूणां च, यददृष्दैव दोर्बलम् । अर्थ्यते पृथिवी सा हि, शूराणां महती त्रपा ॥ १०१ ॥ तत्प्रदत्तां महीमेता-मस्माकमपि गृह्णताम् । कामं हसिष्यते राज-गोष्ठीषु भुजसौष्ठवम् ॥ १०२ ॥ न नाम निर्जितामन्यै-लक्ष्मी कान्ति दोभृतः । वयं हि निहतैर्नागे-राहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन, रमणीयमनपणम् । अन्यथा हि कथं मे स्यात् , सङ्गरोऽयमभङ्गरः?॥१०४॥ शिरःसरोरुहाकीणे-विरोधिरुधिरासवैः। हरिष्याम्यद्य मेदिन्याः, स्वभारवहनक्लमम् ।। १०५ ॥ पार्थोऽपि प्रथमानाङ्ग-वेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं, भाग्यैर्जागरितं मम ॥१०६॥ निर्वाप्येत रणश्राद्धः, कौरवैरेव मे भुजः । न सस्कृतसौहित्य-स्तृप्यतीभः कराम्भसा ॥१०७।। आदीयते स्म तैः साकं, कृष्णाकेशांशुकैः क्षितिः। गृह्णन्तः केवला मेव, वयं लजामहे न किम् ? ॥१०८॥ तत्तां प्रत्याहरिष्यामो, जीवितैः सह विद्विपाम् । तत्कीर्तीः सुचिरोपात्ताः, कलान्तरपदे पुनः ॥१०९।। यमावप्यूचतुः काल-द्विजिह्वरसनोपमौ । संहतु ताम्यतः कामं, शात्रवानावयोभुजौ ॥ ११ ॥ धर्मजोऽथाब्रवीद्धन्धु-वधाय किमु धावति । मनो मे ? किं तु कार्यऽस्मिन् , दैवदृष्टे करोमि किम् ? ॥१११ ॥ सर्वैः सञ्जीक्रियन्तां तत् , पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृ-वधपातकमप्यसौ ॥११२ ॥ इत्यादेशात्तपःसूनो-देवस्य च मुरद्विषः । प्रस्थानाय नृपः सेनाः, सजीकर्तुं प्रचक्रमे ॥ ११३॥
अन्येधुधृतराष्ट्रस्य, सारथिः संजयाभिधः । प्रतीतः प्रतिदौत्याय, तपःसुतमुपागमत् ॥ ११४ ॥ सोऽथ सान्त्वमयैर्वाक्य-रभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां, भाषते भूप ! मद्गिरा ॥ ११५ ॥ त्वं विवेकस्य धर्मस्य, नयस्य
१ युद्धश्रद्धालुः ।
For Personal Private Use Only
www.jainelibrary.org