________________
Jain Educatio
विविक्तधीः || ३७ || विराटो दैवतं किंचि - दिवानन्दाद्दिवानिशम् । किंकुर्वाण इव प्राण-रप्याराधयति स्म तम् ॥ ३८ ॥ आगत्य द्रुपदाद्यैश्व, सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः || ३९ || अभिमन्यू-त्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमप्युच्चै - रेतदुत्कण्ठितोऽवजम् ॥ ४० ॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन सुताः । समसत भूयांस - स्तदन्येऽपि सुरगणाः ॥ ४१ ॥ तथापि वदनाम्भोज - मपश्यन् सानुजस्य ते । कदाचिदपि कौन्तेयः, सुप्रातं नाभिमन्यते ।। ४२ ।। त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काम - मनर्थः पृथुचेतसाम् ॥ ४३ ॥ उत्कण्ठातरलोऽप्युच्चै-विलङ्घय समयावधिम् । मा स्म भूद्वैमनस्यं ते, किंचिदित्यागमन्न सः ॥ ४४ ॥ नास्मिन् काचिदभक्तिस्ते, नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो ! जातं, धिग्विधेर्दुर्विलङ्घयताम् ॥ ४५ ॥ पूर्णेऽपि समये सोऽय - मनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्येतुं, महात्मानोऽभिमानिनः ॥ ४६ ॥ हर्षादुत्तोरणाशेष - द्वारां द्वारवतीं ततः । उपरुध्य मया काममानिन्ये धर्मनन्दनः || ४७ ॥ अधुनाऽपि तदात्मीयं, बन्धुमाह्वातुमर्हसि । द्वयोर्बान्धवयोर्मा स्म, विरोधो भून्मूधैव वाम् ॥ ४८ ॥ विरोधेनाप्युपार्ज्यन्ते, बन्धुहेतोः खलु श्रियः । उदात्तचेतसः क्वापि, नोदरंभरिचेष्टता ।। ४९ ।। तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चे- तन्महत् पुरुषव्रतम् ॥ ५० ॥ हेतोः कुतश्वन त्वं चे-देनं नाह्वाययिष्यसि । भ्रातृभिस्त्रिजगत्येक - वीरैरानेष्यते बलात् ॥ ५१ ॥ न चैवमागतास्तुभ्य - मेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन्महीमपि ॥ ५२ ॥ भवताऽपि तदाऽवश्यं, मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् १ भ्रमरैः । २ हस्तिनापुरम् ।
ional
GL
२२
For Personal & Private Use Only
jainelibrary.org