________________
बीपाण्डव
चरित्रम् ॥
सर्गः ११ ॥ ॥१९१॥
58
Jain Educational
आनन्दैकमयाः सुधारसमयाः कल्याणसंपन्मया,
लक्ष्मीकेलिमया महोत्सवमयाः कौतूहलश्रीमयाः । एतेषां कतिचिद्विराटनगरे तस्मिन् ययुस्तस्थुषा
मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥ ४८० ॥ इति मलधारि श्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विरादावस्थाने गोग्रहवर्णनो नाम दशमः सर्गः ॥
अथ एकादशः सर्गः ।
अथ प्रीतिपरो विष्णु-गौरवेण गरीयसा । सबान्धवं सराजन्यं, निन्ये स्वपुरि धर्मजम् ॥ १ ॥ निविष्टयोर्मिथः स्नेहा-देकत्रैव रथे पथि । समपद्यत संवादो, द्रौपदी-सत्यभामयोः ॥ २ ॥ सत्यभामा विहस्योच्चै - र्जगाद द्रुपदात्मजाम् । ममास्ति महदाश्चर्य, ततः पर्यनुयुज्यसे || ३ || अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि ! । प्रियाणां त्वं तु पञ्चानां कथं तोऽनुवर्तसे १ ॥ ४ ॥ बभाषे महिषी पाण्डु - तनयानां नयोज्ज्वला । सखि ! प्रियवशीकार - मन्त्रपारायणं शृणु ॥ ५ ॥ १ पृच्छयसे ।
For Personal & Private Use Only
अभिमन्योर्वि
वाहः पाण्डवानां
च द्वारका
गमनम् ॥
॥ १९२॥
ainelibrary.org