________________
57
ऽथ, पाणिपीडनपर्वणि ॥ ४६५ || ( पञ्चभिः कुलकम् ) दिशो हि दर्शनानर्हा - अमूरेणुरजस्वलाः । इतीव चक्रे नीरेङ्गी, तदानीमभिमन्युना ॥ ४६६ ॥ विहाराय बहिः स्वैरं कुमारयशसामित्र । निस्वाननिस्वना रोदः, स्फोटयन्त इवोदगुः ।। ४६७ ।। कुङ्कुमाम्भश्छटाच्छोटै - रघण्टापथरेणुकम् । तत्कालमभितः कीर्ण - पुष्पप्रकरदन्तुरम् || ४६८ ।। नवोत्क्षिप्तैः पताhta - राचान्तार्कमरीचिकम् । मञ्श्चन्यश्चितगीर्वाण-गेहाहंकार हुंकृति || ४६९ ।। मिलत्पौरचकोराक्षी-लोचनाञ्जलिभिर्भृशम् । पीतलावण्यसंभारः, कुमारः पुरमाविशत् ॥ ४७० || (त्रिभिर्विशेषकम् ) दत्ता भगर्भकाकूत - चूतपल्लवतोरणम् । रम्भास्तम्भदलैवज्य - मानासन्नचरञ्जनम् ॥ ४७१ || मौक्तिकस्वस्तिकोदार-द्वारगोमय गोमुखम् । धावद्वाराङ्गनावार - वीणाक्षिप्तकार्मु कम् ।। ४७२ ।। प्रमोदमेदुरश्वश्र - विहितार्घादिमङ्गलः । विशति स्म विशांपत्यु - रभिमन्युर्निकेतनम् || ४७३ ॥ (त्रिभिर्विशेषकम् ) कुमारीकरमादत्त, मातृगेहे करेण सः । तस्यै दददिवाजन्म, प्रेमदक्षिणहस्तकम् ॥ ४७४ ॥ कुमारः कौतुकोदारपरीहासविकस्वरः । प्रसृत्वरत्रपातारं, तारामेलकमन्वभूत् ॥ ४७५ ॥ सर्वतेजस्वितेजांसि परिक्षिप्य स्वतेजसा । जगल्लक्ष्मी ग्रहीष्येऽह-मित्येवं कथयन्निव ॥ ४७६ || विराटकन्यया सार्ध-मभिमन्युः करीत्तया । प्रदक्षिणीकरोति स्म ज्वलन्तं जातवेदसम् || ४७७ || युग्मम् || दत्ते स्म हास्तिकाश्रीय-स्वर्णरत्नादिकं बहु । कुमाराय विराटेन्द्रः पाणिमोचनपर्वणि ॥ ४७८ ॥ परां परस्परावास - गमनागमनोद्यताः । यादव्यश्च विराट्यश्च पौराणां ददिरे मुदम् ॥ ४७९ ॥
( १ प्राकृतोऽयं शब्दोऽवगुण्ठनवाचकः । 'अंगुट्ठीइणिरङ्गीणीरङ्गीउ' इति देशीनाममाला । ) २ आकाशम् । ३ घण्टापथःराजमार्गः । ४ गोमुखं लेपः । ५ वीक्षणं - नेत्रम् । ६ हस्ते गृहीतया ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org