SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 55 जातसंविदि निर्गुढं, मयि भक्तिं वितन्वति । युष्मान् को नाम जानीया - द्वसतोऽत्र स्ववेश्मनि ? ॥। ४३५ ।। परं किं नाम भाग्यानि तादृशान्येव सन्ति मे १ । सेवां वः पादयोः काल-मियन्तं तादृशैर्लभे ।। ४३६ || इदानीमपि तद्देव !, स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं, परिभोगैः कृतार्थय ॥ ४३७ ॥ भ्रातृभिः पुरुहूताभैः, पत्तिना च मया तव । न ता अपि दवयस्यो, हस्तिनापुरसंपदः || ४३८ || ऊर्जितं वो ध्रुवं राज्या - दिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थाया-मधिकं हि प्रदीप्यते ।। ४३९ ।। राज्यं च जीवितव्यं च दत्तमेतत्त्वयैव मे । तत्किमन्यदिदानीं ते, करोमि यदुपायनम् ? ॥। ४४० ॥ अर्जुनो मे सुतां कन्या-मुत्तरामध्यजीगपत् । तामस्यैवोपदां कुर्वे, चेत् प्रसीदस्यनुज्ञया ॥ ४४१ ।। पश्यत्यास्यं ततो ज्येष्ठ-बन्धौ बीभत्सुरभ्यधात् । उत्तरा देव मे शिष्या, सुतातुल्यैव तन्मम || ४४२ || विराटः कुरुवंश्यैस्तु, यदि स्वाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां, तदुद्वहतु मे सुतः || ४४३ ॥ इति प्रणयगर्भा तां, भारतीं सितवाजिनः । प्रीतिकल्लोललोलाक्षो, विराटः प्रत्यपद्यत ।। ४४४ ॥ सुभद्रामभिमन्युं च कृष्णं चाह्रातुमुत्सुकः । कंचिद्दूतमजातारिः, प्राहिणोद्वारकां प्रति ।। ४४५ ॥ पञ्चभिः सह पाञ्चालै - रात्मजैर्द्रपदं नृपम् । आनेतुमपरं दूतं, काम्पिल्ये प्रजिघाय सः ॥ ४४६ ॥ तौ दूतवचनात् पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं, कृष्ण-द्रुपदभूपती ॥ ४४७ ॥ भूयस्तरैर्वितन्वानौ, सैन्यैरेकार्णवां महीम् । तौ ततः सपरीवारौ, विराटपुरमीयतुः ॥ ४४८ ॥ सानीकेन विराटेन समं सर्वैश्व बन्धुभिः । ततः प्रत्युद्गच्छत्तौ, प्रीतचेतास्तपः १ अतिदूरस्थाः । २ बलम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy