________________
पाण्डव परित्रम् ॥
विराटे पाण्डवानां प्रादुर्भावः।।
ब:१०॥
देवो युधिष्ठिरः। वल्लवश्च द्विषद्वल्लि-वहिरार्यो वृकोदरः ॥ ४२०॥ तन्तिपालो विलूनारि-कुलश्व नकुलः खलु ।
ग्रन्थिकश्च कृतासेवः, सहदेवो विरोधिभिः ॥ ४२१॥ किं च देव्याः सुदेष्णाया-स्तां तामापुष्णती मुदम् । सैरंध्री | मालिनी नाम, सेयं द्रुपदनन्दिनी ॥ ४२२ ॥ इति बीभत्सुभारत्यां, गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्री-सुभ- गंभावुकोऽभवत् ।। ४२३ ॥
अधाभ्येत्य स पार्थोऽपि, युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ता-फलैरर्चन्निवानमत् ॥४२४॥ कौशेयवसनैस्तैस्तैभूषणैश्च हिरण्मयैः। तान् विभूष्याखिलानात्म-भद्रपीठे युधिष्ठिरम् ॥ ४२५॥ निवेश्य स्वयमासीनः, पुरः कन्दलिताञ्जलिः । व्यज्ञापयद्विराटेन्द्रः, सान्द्रहर्षोभिंगद्गदम् ।। ४२६ ।। (युग्मम् ) यत् प्रति त्वां कदाप्युक्त-मवज्ञावचनं भवेत् । देव! तत्किचन प्राच्यं, व्यलीकं हृदि मा कृथाः ॥ ४२७ ॥ अद्य माद्यन्ति नाधर्म-विपाणि विपये मम । यत्र ते पुण्यपीयूष-प्रावृषः पादपांसवः ।। ४२८ ॥ वीक्षणैर्धार्मिकंमन्य-मनसां जातपाप्मनोः। प्रायश्चित्तमिवासीन्मे, नेत्रयोस्तव दर्शनम् ॥ ४२९ ॥ पुरेऽस्मिन्नद्य कल्याण-भूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणि-सुरंभिस्त्वमुपागमः ॥ ४३० ॥ त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव !, पल्लवैरुल्लमन्त्यमूः ॥ ४३१ ॥ मत्कीर्तिवीरुधो यन, देहिरेऽरिदवानलैः। नूतनाम्भोभृतः सोऽयं, खङ्गस्य महिमा तव ॥ ४३२ ॥ अवेदं गोग्रहेऽप्येतत् , किंचित्तत्त्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ।। ४३३ ।। किमात्मानं निगृह्येवं, नामवेषविपर्ययैः। स्थितं युष्माभिरागत्य, निज एव निकेतने ॥४३४॥
१ आत्मानं सुभगं भावयतीति सुभगंभावुकः । २ वसन्तः ।
१८
118.6811
Jain Education International
For Personal & Private Use Only
Nw.jainelibrary.org