SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 51 तामुच्चकैर्यतम् ॥३७४ । गच्छन् सोत्सेकमेकस्य, प्रतिवीरशरेरितः। उच्चकैरुच्छलन् वाणो, गीर्वाणान् दिव्यनीनशत् ॥३७५॥ संग्रामसाम्यमालोक्य, मुश्चता मार्गणानध । सहैव क्रोधयोधेन, द्विगुणः फाल्गुनोऽभवत् ॥ ३७६ ॥ अथ सारथिरालोक्य, फाल्गुनेषुकरालितम् । राधेयमभ्यधान्मूनिं, निधाय प्रणयाञ्जलिम् ॥३७७ ।। गतः सुयोधनस्ताव-दरमादाय धैनुकम् । ततः स्वामिन् किमात्मान-मिदानी खेदयिष्यसि ।।३७८॥ सन्ति भूयांसि कार्याणि, कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि, किं मुधा गमयिष्यसि ॥३७९ ॥ इत्युदीर्य सशौण्डीय-रसोत्कर्षादनिच्छतः। रथं कर्णस्य संग्रामा-दपवाहितवान् बलात् ॥३८॥ अप्रणाशव्रतं वीक्ष्य, कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तै, रथवेगाय चाटुमिः ।। ३८१ ॥ मत्पुरस्तादुरात्मायं, गच्छत्यादाय गा इति । अनुदुर्योधन क्रुद्धो, धावति स धनंजयः ।। ३८२ ॥ (युग्मम् ) आगच्छत्यर्जुने दूरा-द्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ, सैनिकैरपचक्रमे ॥ ३८३ ॥ ततः प्रक्षिप्य गाः पृष्ठे, सुभटैकधुरंधरः। बभूव सितयुग्येन, सांयुगीनः सुयोधनः ॥ ३८४ ॥ क्षुरपानक्षिपत्तस्मिन् , भ्रातेति सदयोऽर्जुनः । सर्वप्राणं स वाणांस्तु, मुमुचे सव्यसाचिनि ॥ ३८५ ॥ तथापि नात्यरिच्यन्त, पार्थेषुभ्यस्तदाशुगाः। गजेन्द्रगर्जयः किं नु, विजयन्ते घनध्वनीन् ? ॥३८६॥ ततो दौर्योधनं शौर्य-मिव साक्षात् कपिध्वजः। चिच्छेद सायकैश्छेकः, केतुदण्डं पताकिनः ॥ ३८७ ॥ तथापि कौरवे | दर्प-सर्पदष्टान्तरात्मनि । चैतन्यविकले काम-मात्मनीनमजानति ॥ ३८८ ॥ मनाग्विद्यामनुस्मृत्य, जिष्णुरप्राणहारिणम् । १ भन्नव्रतम् । २ सर्वे प्राणा यस्मिन् कर्मणि यथा स्यात्तथा सर्वात्मबलपूर्वकमित्यर्थः । (३ 'छेको विदग्धः' इति शब्दार्थचिन्तामणिः ।) Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy