SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ | साक्षाद्वीरो रसोनु किम् ? । किं वा निःशेषशौण्डीर-शौण्डीय पिण्डतां गतम् ? ।। ३४५ ॥ इत्याद्यालोचयन्नास्य-खेलदुच्छू- | बलेक्षणः। चिरमाप्तोऽस्मि नो तृप्ति-मीक्षमाणो बृहन्नटम् ।। ३४६ ।। (त्रिभिर्विशेषकम् ) तेनाथ शिखरोन्माथ-पटीयः पृथिवीभृताम् । चक्रे विपक्षवक्षोऽश्म-टङ्कष्टंकारिकार्मुकम् ॥ ३४७ ॥ प्रत्यनीकमटैीष्म-भारद्वाजादिभिस्ततः । वितेने विगतानन्द-स्पन्दैः सांराविणं क्षणम् ॥ ३४८ ॥ ऊचेऽन्योन्यं पुरः सोऽय-मर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य, विलोकयत कौतुकम् ।। ३४९ ॥ परं कस्यापि पश्यामो, नेदृशीं सत्त्वसंपदम् । अवस्थाय भुजस्थाम, क्षणं वीक्षिष्यतेऽस्य यः | ॥ ३५० ॥ ततोऽमी किं द्विषो युद्धं, किमेतन्मृत्युरत्र किम् । विस्मृत्य सर्वमप्येत-दानन्दैकमयोऽभवम् ॥ ३५१ ।। . ___अथान्तःस्वान्तमासीन्मे, किमयं पाण्डवोऽर्जुनः ? । अन्वेनं खलु योद्धारः, श्रूयन्ते सांप्रतं भुवि ।। ३५२ ॥ सोऽयं मन्ये नटीभूय, दुरनेहसमत्यगात् । प्रविश्य जलधिं रात्रिं, देवोऽप्यत्येति भानुमान् ॥ ३५३ ॥ तत्संप्रत्यस्य सारथ्ये, प्रत्यार्थभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे, तमोभिरभिभूयते ॥३५४॥ विस्मृतातङ्कनिःशङ्क-स्ततोऽहं समराजिरे । यथामनसमेतस्य, प्रेरयामासिवान् हयान् ॥ ३५५ ॥ रथो दीप इवैतस्य, धावति स यतो यतः। तमासीवारिशौण्डीरा, नालोक्यन्त ततस्ततः ॥ ३५६ ॥ एकतो दोसहायोऽय-मन्यतः कोटिशोऽरयः। नोत्थितः किं तु तैः सेहे, पतङ्ग इव तारकैः ॥ ३५७ ।। एकमेवास्य संधान-मपश्यं निकटेऽप्यहम् । विस्पष्टं मुष्टिमप्येकं, कैशिकन्यायवर्तिनम् ।। ३५८ ॥ निर्वाणप्राणसौहार्दाः, क्ष्मातले पतयालयः । लक्षशः प्रतिपक्षास्तु, निरीक्षांचक्रिरे मया ॥३५९ ॥ अन्यतेजोऽसहस्यास्य, पिधातुं धर्मदीधितिम् । कृपयेव १ कोलाहलः । २ दुःसमयम् । ३ सूर्यः । ४ (कैशिक केशसमूहः।) in Educatio n al For Personal & Private Use Only www.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy