SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 47 द्भिरभ्येत्य, राजमन्दिरचारिभिः । आगच्छत्युत्तरो (रे) दिया, वातो भूमिवल्लभः || ३१४ ॥ ( युग्मम् ) सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षा - दीयतुः श्रवणान्तिकम् || ३१५ || अद्भिर्नेत्रघटीयत्र - मुक्ताभिः प्लाविते मुदा । क्षणात् क्षोणीभृतः क्षेत्रे, जज्ञिरे पुलकाङ्कुराः || ३१६ ।। प्रीत्या पृथ्वीपतिर्यात्र-तं प्रत्युद्गन्तुमिच्छति । कुमारस्तावदभ्येत्य, पपात पादयोः पितुः || ३१७ ।। ततस्तनयमुत्थाप्य, गाढमालिङ्गय भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ॥ ३१८ ॥ आसीनेषु यथास्थानं, सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं, कुमारस्तमचीकथत् || ३१९ || यस्मिन् कुप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः। जयः किमतिदुर्लम्भ-स्तत्र संभाव्यते रणे १ || ३२०|| तादृशा बाहवोऽस्यैव, यादृशैर्वैरिनिर्जयः । करा मृगपतेरेव, देव ! दन्तावलगुहः ॥ ३२१ ॥ इत्युत्तरस्य भारत्या, विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूला-तमुदन्तं विशेषतः ॥ ३२२ ॥ अभ्यधत्तोत्तरः स्वामि-न्नभावादन्यसारथेः । सारथिं षण्ढमप्येन माधाय समरेऽगमम् || ३२३ ॥ अनेकरथचीत्कार वाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरै-र्लोहितायितपुष्करम् ॥ ३२४ ॥ तुरङ्गमखुरोद्धृत- धूलीकन्दलिताम्बुदम् । शौर्यावदातपादात क्ष्वेडाक्षोभितकातरम् ॥ ३२५ ॥ प्लावयत् परितो धात्रीं, कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः || ३२६ || (त्रिभिर्विशेषकम् ) गाङ्गेयोऽयमयं द्रोणः कर्णोऽसावेष सौबलः । सैष दुर्योधनश्चेति, विशेषमविदं ततः ॥ ३२७ ॥ निःसत्त्वतां सत्त्वं, विक्रमोऽभूदविक्रमः । जातमोजोऽप्यनोजस्वि, गर्वोऽप्यागादगर्वताम् ॥ ३२८ ॥ क्षणादत्यजदभ्यासं, १ शरीरे । २ दन्तावल: - हस्ती । ३ पुष्करम् - आकाशम् । ४ समीपम् । For Personal & Private Use Only Jain Education anal www.nelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy