________________
AC
पाण्डववरित्रम् ॥ पर्यः१०॥ ॥१८५॥
विराटधाराष्ट्र योयुद्धम्॥
द्विराटतनयस्य ते । कुमार ! स्फारदोःसार !, तद्यथोचितमाचर ॥ २९९ ॥ इत्याकर्ण्य वचस्तस्य, वत्सः स्फुरितमत्सरः ।
शौण्डीरिमसरोमाञ्चः, सखेदमिदमभ्यधात् ।। ३०० ॥ सहापि द्रोण-कर्णाद्यैः, को नु दुर्योधनो मम । पपौ बलि-मुकु|न्दाद्यैः, सहैव मुनिरर्णवम् ।। ३०१॥ जयः किं तु न विज्ञेन, रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्नि-न ज्वलत्य-1 निलाहते ॥३०२॥ तमभ्यधान्मदा(द)भ्यर्ण-वर्तिनी मालिनी ततः। योऽयं तूर्यत्रयाचार्यो, भगिन्यास्ते वृहन्नटः ।।३०३॥ जानीहि तममुं सर्व-सारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः, प्रेरयन् स्थवाजिनः ॥ ३०४ ॥ ततः क्लीबोऽयमित्युच्चैविचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय, वितेने सारथिं रथे ॥ ३०५ ॥ गृहीतास्त्रेण तेनाथ, प्रयुक्ताश्वमतल्लिकः। सुतोऽभूदम्पमित्रीण-स्तवैकाङ्गभटाग्रणीः ॥ ३०६ ॥
तां निशम्य गिरं तस्या, भूपतिः सुतवत्सलः । गतमेकाकिनं सूनु-मित्यशोचन्मुहुर्मुहुः ।। ३०७ ।। ह हा बाहुसहायोऽयं, क्षीरकण्ठः क्व मे सुतः ? । क्व चेयं वैरिकासार-गाहिनी कुरुवाहिनी ? ॥ ३०८ ॥ तदनीके हि योधाना-मेकैकस्य | पराक्रमैः । हरेमनसि वास्तव्या, भीतयश्चक्रिरे चिरम् ।। ३०९ ॥ तद्दोर्वीर्यानले कीर्ते-रायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं, सूनुमें प्रथमाहुतिः ॥ ३१० ॥ इत्यभीक्ष्णं पतिः क्षोणेः, शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित् , सहायश्चेदहन्नटः ॥३११ ॥ भीतिन हि भुजङ्गेन्द्रा-दभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः क्वापि, भास्करे करवर्तिनि ॥३१२ ॥ इमां बृहन्नटस्तोत्र-कोविदां मालिनीगिरम् । आकर्ण्य कुपितो याव-नृपः किमपि जल्पति ॥ ३१३ ॥ तावद्धाव
१ अगस्त्यः । २ 'जय' प्रतित्रयपाठो न साधुः । ३ वाहिनी-सेना, पक्षे नदी । ४ आयुष्टोमः-यज्ञविशेषः ।
॥१८५|
१८५॥
Jain Educ
.
For Personal & Private Use Only
Byainelibrary.org