________________
45
कङ्क! श्रीकेलिपल्यङ्क !, वल्लव ! प्रीतिपल्लव ! । तन्त्रिपाल ! द्विषत्काल !, ग्रन्थिकाप्रतिपन्थिक ! ॥ २८४ ॥ एषा लक्ष्मीरिदं राज्य - मदश्व मम जीवितम् । अद्यप्रभृति युष्माक - मेवैतत् किमतः परम् ॥ २८५ ॥ यौष्माकीणभुजौर्जित्य - फलकेनैव संप्रति । सत्कीर्तयो ममोत्तेरुः, सुशर्मविपदर्णवम् ॥ २८६ ॥ इत्युचैः स्तुतिवाचाले, भूपाले पुलकाङ्किते । त्रपावनतमूर्द्धानः, पाण्डवेया बभाषिरे || २८७ || अनुभावस्तवैवायं, जयामो यदरीन् वयम् । महोभिर्मिहिरस्यैव, हन्ति ध्वान्तं यतोऽरुणः ॥ २८८ ॥ इत्युदीर्य भटान् वाक्यैः, संभाव्यापेत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ।। २८९ ।। नेत्रनीलाब्ज मालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते, चलन्ति स्म पुरं प्रति ।। २९० ॥ ( युग्मम् )
किं भविष्यत्तया मूक-मागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं, राजमन्दिर माविशत् ।। २९१ ॥ बहिः ! संस्थाप्य कङ्कादीन्, सशङ्कोऽन्तःपुरं ययौ । वीक्ष्य मेदस्विवेदां च, सुदेष्णामवदन्नृपः ॥ २९२ ॥ विच्छायं ते मुखं देवि !, किं प्रगे मृगलक्ष्मवत् ? । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः १ ।। २९३ ।। साऽब्रवीद्देव ! युष्मासु, धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्, पूत्करोति स्म वल्लवः ॥ २९४ ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मत्रपुः शरैः ।। २९५ ॥ उत्तरस्यां दिशि द्रोण- भीष्म-कर्णादिभिः सह । स्वयं दुर्योधनोऽभ्येत्य, सौरभेयीरचालयत् ।। २९६ ।। ततः सर्वेऽपि संभूय, वल्लवास्तमयोधयन् । तव प्राणपरित्यागा- द्रवामानृण्यमाययुः || २९७ ॥ किंवदन्तीहरस्तेषा - मेक एवास्मि जीवितः । सन्ति चाद्यापि गावस्तान्, पतितान् परितः स्थिताः ।। २९८ ।। इत्याख्यातं मया ताव - १ सूर्यस्य । २ लज्जाहरैः । ३ प्रभूतखेदाम् । ४ चन्द्रवत् । ५ कच्छ:- सजलप्रदेशः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org