SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सफलो भवेत् ॥ २२७॥ बाव-धनग्रहे । भजेयुः प्रकटीभावः ॥ अन्यस्यां तु कृते तस्मि- भूष्णु-र्जेतुमेनं न कश्चन ॥ २२१ ॥ कुत्रापि यदि गुप्तोऽपि, भवेदनिलनन्दनः । नूनं तन्न सहेतास्य, भुजाहंकारडिण्डिमम् ।। २२२ ॥ युध्यमानोऽमुना भीम-श्चेनिहन्येत तन्मम । हतः स्यादहितो हन्यात् , स वाऽमुं विदितो भवेत् ।। २२३ ॥ इत्याकूतवता मल्ल-ग्रामणीः प्रहितो मया । स मेदिनी क्रमात् क्रामन् , विराटनगरं ययौ ॥२२४॥ तस्मिंश्च तस्य भूभर्तुः, सूपकृदुषकर्परम् । जघानेति श्रुतिर्जाने, तन्नूनं स वृकोदरः ॥ २२५ ॥ स यत्रास्ति ध्रुवं भाव्यं, तत्रान्यैरपि पाण्डवैः।। राजयक्ष्मा हि न श्वास-कास-श्लेष्मादिभिर्विना ॥ २२६ ॥ परं ते चेदभिव्यक्ति-मानीयन्ते कथंचन । तत्तानुच्छेत्तुमुत्सेको, मदीयः सफलो भवेत् ॥ २२७ ॥ विराटपुरसंरोध-प्रष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति, तैरमीषां हि का. व्यथा ? ॥ २२८ ॥ किं तूभयोर्दिशोस्तत्र, कृते जीव-धनग्रहे । भजेयुः प्रकटीभावं, ते दयामयचेतसः ।। २२९ ।। अस्माभिस्तद्हे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः, स्वसैन्यैरखिलैरपि ॥ २३० ॥ अन्यस्यां तु कृते तस्मि-शून्यतां नगरे गते । निर्यास्यन्ति स्थिताः पश्चात् , पाण्डवा एव केवलम् ॥ २३१ ॥ तदेवं पाण्डवेयेषु, गतेषु स्फुटतां भृशम् । संरैप्स्येऽहं तदुच्छेद-हेतवे पृतनोर्मिभिः ॥ २३२ ॥ इत्यालोच्य बलैः कैश्चित् , सारैर्दन्तुरयन् दिशः । विराटपुरमभ्येतुं, प्रतस्थे धृतराष्ट्रभूः ॥ २३३ ।। तदश्वीयखुरोत्खात-रजःस्थगितमण्डलः । तस्यान्यायमिवाद्रष्टुं, रविरागाददृश्यताम् ॥ २३४ ॥ मूर्तिमद्भिरिवाधर्म-स्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शोष-मनीयन्त समुद्रगाः ॥ २३५ ॥ कुरुगोत्रप्रदीपस्य, सांप्रेतं ते न दस्युता । इत्याख्यातुमिवैतस्य, मारुतोऽभिमुख ववौ ॥ २३६ ॥ युक्तं न तव कमैतत् , कर्मसाक्षिणि पश्यति । इत्याख्या १ शत्रुः । २ गर्वः । ३ यतिष्ये । ४ नद्यः । ५ योग्या । शम् । सरप्स्येऽहं । Main Education teman na For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy